________________ आवश्यकनिर्युक्तेरक दिकुमारीम होत्सवः वंशनामस्थापना च चूर्णिः // 182 // गा० 188-190 SEXXXXXXXXXX. मेरु अह उडलोआ चउदिसिरुअगा उ अट्ठ पत्तेअं। चउविदिसि मज्झरुयगा इति छप्पण्णा दिसिकुमारी (प्रक्षि० अन्याऽव्याख्याता चसंवद्द मेह आयंसगा य, भिंगार तालियंटा य / चामर जोई रक्खं, करेंति एयं कुमारीओ॥१८८॥ संवर्त्तकवायु विकुर्वन्ति अष्ट दिक्कुमार्यः, सूतिकागृहात्सर्वतो योजनपरिमाणं यावत्तृणकचवरादिकं सर्व परिक्षिपन्ति, अष्टौ मेघं विकुर्वन्ति, अष्ट आदर्शहस्ता आगच्छन्ति, एवमष्ट भिङ्गारहस्ताः, अष्ट चामरहस्ताः, चतस्रो ज्योतिरिति दीपिकाहस्ताः, चतस्रो रक्षां कुर्वन्ति, चतुरङ्गुलवर्ज नाभिं च कृन्तन्ति, षट्पञ्चाशदपि चैताः स्वकृत्यानि कृत्वा गुणोत्कीर्तनं कुर्वन्ति, इयमपि प्रक्षेपगाथा, हारिभद्रीयवृत्तौ चेयं नियुक्तिगाथेति कृत्वा व्याख्याता // 188 // गतं जन्मद्वारं, भगवतो नामनिबन्धनं चतुर्विंशतिस्तवे वक्ष्यते, इह तु वंशनामनिबन्धनमभिधित्सुराहदेसूणगं च वरिसं, सक्कागमणं च वंसठवणा य / आहारमंगुलीए, ठवंति देवा मणुण्णं तु // 189 // देशोनं च वर्ष भगवतो जातस्य यावदभूत् तावच्छकागमनं च सञ्जातं, तेन भगवतो वंशस्थापना च कृता, सोऽयं ऋषभो यस्य गृहवासेऽसंस्कृत आसीदाहारः, किञ्च-सर्वतीर्थकरा एव बालभावे वर्तमाना न स्तनोपयोगं कुर्वन्ति, किन्वाहाराभिलाषे सति स्वामेवाङ्गुलिं वदने प्रक्षिपन्ति, तस्यां चाङ्गुल्यां नानारससमायुक्तं मनोज्ञमाहारं देवाः स्थापयन्ति / अतिक्रान्तबालभावास्तु | सर्वेऽप्यग्निपक्वमाहारं गृह्णन्ति, ऋषभस्तु यावत्प्रव्रज्यां न प्रतिपन्नस्तावद्देवोपनीतम् // 189 // अथ प्रकृतमुच्यते सको वंसट्ठवणे, इक्खु अगू तेण हुंति इक्खागा। जं च जहा जंमि वए, जोगं कासी य तं सव्वं // 19 //