________________ आवश्यक नियुक्तेरव चूर्णिः // 181 // तीर्थकरना| मकर्मबन्धः श्रीऋषमजन्मादिवक्तव्यता च गा० 184-187 ऊर्द्र बन्धव्यवच्छेदः, केवलिकाले च तस्योदयः // 183 // तत्कस्यां गतौ बध्यते इत्याहनियमा मणुयगईए, इत्थी पुरिसेयरो य सुहलेसो। आसेवियवहुलेहिं, वीसाए अण्णयरएहिं॥ 184 // नियमान्नियमेन मनुष्यगतौ वध्यते, निकाचनारूपो बन्धोऽत्र ग्राह्यः, स्त्री पुरुष इतरो वेति नपुंसकः, शुभलेश्या यस्यासौ शुभलेश्यः, कैविशतेरन्यतः स्थानः, कथम्भूतैः? आसेवितबहुलैः बहुलमनेकप्रकारमासेवितरित्यर्थः, पूर्वापरपदनिपातव्यत्ययः प्राकृतशैलेशीवशात् // 184 // उववाओ सबढे, सब्वेसिं पढमओ चुओ उसमो। रिक्खेण आसाढाहिं, असाढबहुले चउत्थीए // 18 // उपपातः सर्वार्थे सर्वेषां सञ्जातः, ततश्चायुःपरिक्षये सति प्रथमो वज्रनाभच्युत ऋषभः ऋक्षेण-नक्षत्रेणाषाढाभिरुत्तरा(पाढाभिः आषाढबहुले चतुर्थ्याम् // 185 // अथ तद्वक्तव्यतामभिधित्सुरिगाथामाह जम्मणे नाम वुड्डी अ, जाईस्सरणे इअ / वीवाहे अ अवचे, अभिसेए रजसंगहे // 186 // जन्मविषयो विधिर्वक्तव्यः 1, एवं नामविषयः, 2, वृद्धिश्च वाच्या 3, जातिस्मरणे च 4, विवाहे च 5, अपत्ये 6, अभिषेके 7, राज्यसङ्ग्रहे 8, विधिर्वक्तव्यः सर्वत्र योज्यम् // 186 // अथाद्यद्वारार्थमाहचित्तबहुलट्ठमीए, जाओ उसभो असाढणक्खत्ते / जम्मणमहो अ सव्वो, णेयव्वो जाव घोसणयं // 187 // चैत्रबहुलाष्टम्यां जात ऋषभ उत्तराषाढानक्षत्रे, तस्य जन्ममहस्सर्वोऽपि तावन्नेतव्यः-शिष्यबुद्धिं प्रापणीयः यावद् घोषणकमाभियोगिकैरिन्द्रकारितं // 187 // // 181 // आ०चू०१६