________________ आवश्यक नियुक्तेरव चूर्णिः // 18 // उपकरणप्रत्युपेक्षा 4, पादप्रमार्जनं 5, वस्त्र 6, भैषज्ययोर्दानं 7, अध्वनि साहाय्यं 8, दुष्टस्तेनादिभ्यो रक्षणं 9, वसतौ प्रवि- तीर्थकरशतां दण्डकग्रहणं 10, कायिकमात्रक 11 संज्ञामात्रक 12 श्लेष्ममात्रकाणां समर्पणं 13, एवंविधे वैयावृत्त्ये सति बध्यते नामकर्म१६, समाधिश्च गुर्वादीनां कार्यकरणद्वारेण स्वस्थतापादनं तस्मिन् सति 17 // 180 // बन्धः फलं अप्पुव्वनाणगहणे, सुयभत्ती पवयणे पभावणया। एएहिं कारणेहिं, तित्थयरत्तं लहइ जीवो // 181 // च गा. अपूर्वस्य ज्ञानस्य ग्रहणे सति 18, श्रुतभक्तिश्च विवक्षितकर्मबन्धकारणं 19, प्रवचनप्रभावना च, सा च यथाशक्ति- K981-183 प्रवचनार्थोपदेशरूपा, सङ्कटे महाप्रभावदर्शनेन 20, एवमेभिः कारणैरनन्तरोक्तैस्तीर्थकरत्वं लभते जीवः॥ 181 // पुरिमेण पच्छिमेण य, एए सब्वेऽवि फासिया ठाणा / मज्झिमएहिं, जिणेहिं एक दो तिणि सव्वे वा // 18 // पूर्वेण ऋषभनाथेन पश्चिमेन-महावीरेण प्राग्भवे एतानि सर्वाणि स्पृष्टान्यासेवितानि, मध्यमैर्जिनैरे द्वे त्रीणि सर्वाणि वा // 182 // तं च कहं वेइजइ ? अगिलाए धम्मदेसणाईहिं / बज्झइ तं तु भगवओ, तइयभवोसक्कइत्ताणं // 183 // चः पुनरर्थेन, ननु तत्पुनस्तीर्थकरनामकर्म उदयप्राप्तं कथं वेद्यते ? एवं शिष्येण प्रश्ने कृते सूरिराह-अग्लान्या-ग्लानिपरिहारेण धर्मदेशनादिभिः-अष्टमहाप्रातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे सति, आदिशब्दाच्चतुस्त्रिंशतातिशयैः पञ्चत्रिंशता // 18 // बुद्धवचनातिशेषैरित्यादिपरिग्रहः, तत्तु तीर्थकरनामकर्म भगवतस्तीर्थकरभवात् प्राग् अवसl पश्चिमानुपूर्व्या यस्तृतीयभवस्तस्मिन् वध्यते निकाच्यते, निकाचनारूपश्च बन्धस्तृतीयभवादारभ्य तावत् यावत्तीर्थकरभवे अपूर्वकरणस्य सङ्खथेयभागास्तत