________________ आवश्यकनियुक्तेरव चूर्णिः ऋषभदेवपूर्वभवाः गा. 175-178 // 178 // RROWSERISEXKKKXE* यान्तु ममापि लाभो भवत्विति संवेगमापन्नः, अभिनिष्क्रान्तो दीक्षां प्रतिपन्नवान् , तेनैव भवेनान्तकृत् सिद्धो जातः॥१७४॥ साहुं तिगिच्छिऊणं, सामण्णं देवलोगगमणं च। पुंडरगिणिए उ चुया, तओ सुया वइरसेणस्स // 17 // . साधुं चिकित्सयित्वा, श्रामण्यं परिपाल्य, पञ्चानामपि देवलोके गमनं च, अच्युतकल्प इत्यर्थः, ततश्युताः पुण्डरीकिण्यां नगर्या वज्रसेनस्य सुता अभवन् // 175 // पढमित्थ वइरणामो, बाहु सुबाहू य पीढमहपीढे / तेसि पिआ तित्थयरो, णिक्खंता तेऽवि तत्थेव // 176 // तत्र प्रथमो वैद्यसुतोऽत्र वज्रनाभोऽभूत् / शेषास्तु राजश्रेष्ठचमात्यसार्थवाहसुताः क्रमेण बाहुसुबाहुपीठमहापीठा बभूवुः, तेषां च पिता वज्रसेनस्तीर्थकरो जातः, तेऽपि वज्रनाभादयः पश्चापि तत्रैव तीर्थकरस्य पितुः समीपे निष्क्रान्ताः // 176 // पढमो चउदसपुवी, सेसा इकारसंगविउ चउरो। बीओ वेयावच्चं, किइकम्मं तइअओ कासी // 177 // प्रथमो वज्रनाभश्चतुर्दशपूर्वी जातः, शेषाश्चत्वारोऽप्येकादशाङ्गविदः, द्वितीयो बाहुर्वैयावृत्त्यं भक्तपानादिनोपष्टम्भलक्षणं चक्रवर्तिभोगफलमकार्षीत् , तृतीयः सुबाहुः कृतिकर्म-साधुविश्रामणारूपं बाहुबलफलमकार्षीत् // 177 // भोगफलं बाहुफलं, पसंसणा जिट्ठ इयर अचियत्तं / पढमो तित्थयरत्तं, बीसहि ठाणेहि कासी य॥१७८॥ भोगफलं बाहुबलमिति व्याख्यातमेव, प्रशंसनं गुरुणा क्रियते ज्येष्ठयोः, कनिष्ठयोः पीठमहापीठयोः 'अचिअत्तंति गुरुषु प्रशंसां कुर्वत्सु मात्सर्यमभूत् / प्रथमस्तीर्थकरत्वं विंशत्या स्थानैरकार्षीत् // 178 // कानि तानि इत्याह अरिहंत सिद्ध पवयण गुरु थेर बहुस्सुए तवस्सीसुं। वच्छल्लया एएसिं, अभिक्खनाणोवओगे य // 179 // 178 //