________________ आवश्यकनियुक्तेरव चूर्णिः ऋषभदेवपूर्वभवाः गा. 170 // 176 // तु, एते द्वे प्रागुक्ते युगादिदेवप्रवर्तिते, तृतीया चारकलक्षणा भरतेन माणवकनिधिं परिभाव्य प्रवर्त्तिता, चतुर्थी छविच्छेदोहस्तपादनासिकाच्छेदः,आदिशब्दाच्छिरःकर्त्तनादिपरिग्रहः, साऽपि, एताश्चतस्रोऽपि यथाक्रममल्पगुरुगुरुतरगुरुतमापराधविषया, आद्य नीती ऋषभनाथेनैवोत्पादिते, अन्त्ये तु माणवकनिधेरुत्पन्ने इति भरतस्य चतुर्विधा नीतिरभूदित्यर्थः, हारिभद्रीयवृत्ती तु चतुर्विधापि भरतेनैव प्रवर्तितेति // 3 // अथ प्राक् सूचित इक्ष्वाकुवंशः प्रतिपाद्यते नाभी विणीअभूमी, मरुदेवी उत्तरा य साढा य / राया य वइरणाहो, विमाणसम्बट्ठसिद्धाओ॥ 17 // इयं नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं क्रियाध्याहारः कार्यः, स चैवं-नाभिर्नाम कुलकरोऽभूत् , विनीता भाविपुरी तस्यां भूम्यामवसत् , मरुदेवी तस्य भार्या, राजा च प्राग्भवे वज्र(वैर)नाभः सन् प्रव्रज्यां गृहीत्वा तीर्थकृन्नामकर्म बद्धवा मृत्वा सर्वार्थसिद्धिमवाप्य ततश्चयुत्वा तस्यां मरुदेव्यां तस्यां विनीतभूमौ ऋषभनाथः सञ्जातः, तस्योत्तराषाढानक्षत्रमासीदिति // 17 // धणमिहुणसुरमहब्बलललियंगयवइरजंघमिहुणे य। सोहम्मविजअचुअ चक्की सव्वट्ठ उसमे // 11 // (प्रक्षि०) इयं गाथाऽन्यकर्तृकी हारिभद्रीयवृत्तावऽव्याख्याता, आद्यभवे धनः सार्थवाहः 1, उत्तरकुरुषु मिथुनकः 2, सौधर्मे सुरः 3, गन्धिलावती विजये महाबलो राजा 4, ईशाने ललिताङ्गो देवः 5, महाविदेहे वनजङ्घः 6, उत्तरकुरुषु मिथुनकः 7, सौधर्मे देवः 8, विदेहेषु वैद्यः 9, अच्युते देवः 10, विदेहे वज्रनाभश्चक्रवती 11, सर्वार्थसिद्धविमाने देवः 12, ऋषभश्च 13 // 1 // एतानेव क्रमेण विवरीषुराह // 176 //