SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव कुलकराधिकारः गा. 161-162 चूर्णिः // 173 इति सम्प्रदायः, तथापीपन्यूनत्वान्न भेदाभिधानं, वर्णेनैकवर्णाः सर्वाः प्रियङ्गुवर्णाः // 160 // अथायुभरमाह पलिओवमदसभाए, पढमस्साउं तओ असंखिज्जा / ते आणुपुब्बिहीणा, पुवा नाभिस्स संखेजा // 161 // पल्योपमदशभागः, 'प्रथमस्य' विमलवाहनस्यायुः, ततोऽन्येषां चक्षुष्मदादीनामसङ्ख्येयानि पूर्वाणि इति सम्बध्यते, तान्येवानुपूर्व्याऽनुक्रमेण हीनानि, नाभेः संख्येयानि आयुष्क, अन्ये तु व्याचक्षते-पल्योपमदशभाग एव प्रथमस्यायुः, ततो द्वितीयस्याऽसङ्ख्येया इति पल्योपमासङ्ख्येयभागा इति वाक्यशेषः, त एवानुपूर्व्या हीनाः शेषाणामायुः तावद्यावत्पूर्वाणि नाभेः सङ्खयेयानीति, अविरुद्धा चेयं व्याख्या, अपरे व्याचक्षते-प्रथमस्य प्राग्वत् , ततः शेषाणामसङ्ख्येया इति-समुदितानां पल्योपमासहयेयभागाः, एतदुक्तं भवति-द्वितीयस्य पल्योपमासङ्ख्येयभागः, शेषाणां तत एवासङ्ख्येयभागः असङ्ख्येयभागः पात्यते तावद्या वन्नाभेरसङ्ख्येयानि पूर्वाणि, इदं पुनरपव्याख्यानं, कुतः ? पञ्चानामसङ्ख्येयभागानां पल्योपमचत्वारिंशत्तमसङ्ख्येयभागानुपपत्तेः, उक्तं, च 'पलिओवमट्ठभागे' इत्यादि, तत्राप्याद्यस्य दशमभाग आयुरुक्तं, तस्मिंश्चापगते विंशतितमभागद्वयस्य व्यपगमाच्छेषश्चत्वरिंशद्भागोऽवतिष्ठते, स च सङ्ख्येयतमस्ततश्च कालो न गच्छति, ननु अत एव नाभेरसङ्ख्येयानि पूर्वाण्यायुरिष्टं, उच्यते, अयुक्तं चैतन्मरुदेव्याः सङ्ख्येयवर्षायुष्कत्वात् , नहि केवलज्ञानमसङ्ख्येयवर्षायुषां भवति, ततः किमिति चेदुच्यते, ततश्च नाभेः सङ्ख्येयवर्षायुष्कत्वमेव // 161 // यत आह जं चेव आउयं कुलगराण, तं चेव होइ तासिपि / जं पढमगस्स आउं, तावइयं चेव हत्थिस्स // 162 // यदेवायुः कुलकराणां प्रागुक्तं तदेव तत्प्रमाणमित्यर्थो भवति, तासामपि कुलकराङ्गनानां, यत्तु प्रथमस्य कुलकरस्या // 173 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy