________________ आवश्यकनिर्युक्तेरव कुलकराधिकारः गा. 156-160 चूर्णिः // 172 // णव धणुसया य पढमो, अट्ठ य सत्तद्धसत्तमाइं च / छच्चेव अद्धछट्ठा, पंचसया पण्णवीसं तु // 156 // नवधनुःशतानि प्रथमः१, अष्टौ च 2 सप्त 3 अर्द्धसप्तानि४ षडेव ५अर्द्धषष्ठानि 6, सर्वत्र शतशब्दो योज्यः, पञ्चशतानि पश्चविंशति च 7, अन्येऽन्त्यपादमेवं पठन्ति-पञ्चशतानि पञ्चविंशत्यधिकानि // 156 // अथ संहननसंस्थानप्रतिपादनार्थमाह वजरिसहसंघयणा, समचउरंसा य हुंति संठाणे / वण्णंपि य वुच्छामि, पत्तेयं जस्स जो आसी // 157 // सर्व एव वज्रऋषभसंहननाः समचतुरस्राश्च भवन्ति 'संस्थाने' इति संस्थानविषये निरूप्यमाणे, अथ वर्णद्वारसम्बन्धाभिधानायाह-वर्णमपि च वक्ष्ये प्रत्येकं यस्य य आसीत् // 157 // चक्खुम जसमं च पसेणइअं एए पिअंगुवण्णाभा। अभिचंदो ससिगोरो, निम्मलकणगप्पभा सेसा॥१५८॥ चक्षुष्मान् यशस्वी च प्रसेनजिच्च एते प्रियङ्गुवर्णाभाः-नीलवर्णा इत्यर्थः अभिचन्द्रः शशिवगौरः, निर्मलकनकप्रभाः शेषा विमलवाहनादयस्त्रयः॥१५८ // अथ स्त्रीद्वारमाह चंदजसचंदकंता, सुरूव पडिरूव चक्खुकंता य / सिरिकंता मरुदेवी, कुलगरपत्तीण नामाई // 159 // विमलवाहनादीनां यथाक्रमं चन्द्रयशाः 1 चन्द्रकान्ताः 2 सुरूपा 3 प्रतिरूपा 4 चक्षुःकान्ता च 5 श्रीकान्ता 6 मरुदेवी 7 कुलकरपत्नीनां नामानि // 159 // संघयणं संठाणं, उच्चत्तं चेव कुलगरेहिं समं / वण्णेण एगवण्णा, सव्वाओ पियंगुवण्याओ॥१६०॥ संहननं संस्थानमुच्चैस्त्वं चैव कुलकरैः आत्मीयैः आत्मीयैः सममनुरूपं आसां प्रस्तुतस्त्रीणां, किन्तु प्रमाणेनेषन्यूना // 172 //