SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरव निर्गमखरूपम् गा.१४५ चूर्णिः // 167 // स्त्रियाः स्त्रियं प्रतिपादयन्त्याः स्त्रीनिर्देशः, एवं क्लीबस्य क्लीबमभिदधानस्य क्लीबनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्ते तदा स्त्रिया उपयोगानन्यत्वात् स्त्रीरूप एवासौ, एवं निर्देश्यनिर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र संयोज्यम् , असमानलिङ्गनिर्देशोऽस्याऽवस्त्वेव, असमानं लिङ्गं ययोः स्त्रीपुरुषयोस्तयोरेककालमेकेन वा योऽसौ निर्देशः सोऽवस्त्वेव, तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वात्तन्मय एव, तन्मयत्वात्तत्समानलिङ्गनिर्देशः, ततश्च सामायिकवक्ता तदुपयोगानन्यत्वात्सामायिक प्रतिपादयन् आत्मानमेवाह यतस्तस्मात्तत्समानलिङ्गाभिधान एवासी, रूढितश्च सामायिकार्थरूपस्य नपुंसकत्वात् स्त्रियाः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिकस्य नपुंसकलिङ्गनिर्देश एवेति शब्दनयमतां सर्वनयमतान्यपि चामूनि पृथग् पृथग् विपरीतविषयत्वान्न प्रमाणं, समुदितानि तु समस्तान्तर्बाह्यनिमित्तसामग्रीसापेक्षत्वात्प्रमाणं // 144 // अथ निर्गमद्वारप्रतिपादनार्थमाह नाम ठवणा दविए, खित्ते काले तहेव भावे अ। एसो उ निग्गमस्सा, णिक्खेवो छव्विहो होइ // 145 // नामस्थापने सुगमे, द्रव्यनिर्गमो द्विधा-आगमतः पूर्ववत्, नोआगमतस्त्रिधा, ज्ञभव्यशरीरे सुगमे, तद्व्यतिरिक्तोऽनेकधा, द्रव्यात्सच्चित्ताचित्तमिश्रात् द्रव्यस्य सचित्ताचित्तमिश्रस्य प्रत्येकमिति नवभङ्गी, तद्यथा-सचित्तात्सचित्तस्य निर्गमः पृथिव्या अङ्करस्य 1, सचित्तान्मिश्रस्य भूमेः पतङ्गस्य, तस्य मिश्रता पक्षाद्यवयवानामचित्तत्वात् 2, सचित्तादचित्तस्य भूमे| बर्बाष्पस्य 3, मिश्रात्सचित्तस्य देहात्कृमः देहस्य मिश्रता तद्गतकेशनखाद्यवयवानामचित्तत्वात् 4, मिश्रान्मिश्रस्य स्त्रीदेहान् गर्भस्य 5, मिश्रादचित्तस्य देहाद्विष्ठायाः 6, अचित्तात्सचित्तस्य काष्ठात्कृमः 7, अचित्ताम्मिश्रस्य काष्ठाद् घूणस्य तस्य मिश्रता पक्षाद्यवयवानामचित्तत्वात् 8, अचित्तादचित्तस्य काष्ठाद् घूणचूर्णस्य 9 / अथवा चतुर्भङ्गी द्रव्याद्र्व्यस्य 1 द्रव्याद्रव्याणां 2 BASEAXXSEXSEX // 167 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy