________________ आवश्यकनियुक्तेरव चूर्णिः निर्देशे नयविचारः गा.१४४ // 166 // इदं च सामायिकं नपुंसक, सावद्ययोगविरमणस्य नपुंसकतया रूढत्वात् , अत्य च निर्देष्टा-उच्चारयिता इत्यर्थः, त्रिविधोऽपि स्त्रीपुमान्नपुंसकं च, तत्र को नयो नैगमादिः के निर्देशमिच्छतीति प्रतिपिपादयिषुराह दुविहंपि णेगमणओ, णिद्देसं संगहो य ववहारो। निद्देसगमुज्जुसुओ, उभयसरित्थं च सहस्स // 144 // नैगमो द्विविधमपि सामायिकं मन्यते, कथं ? निर्देश्यनिर्देशकवशात्, निर्देश्यं सामायिक, निर्देशको वक्ता / तत्र निर्देश्यमाश्रित्य रूढितो नपुंसकं सामायिक, निर्देष्टुः स्त्रीपुन्नपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकाथरूपस्य त्रिलिङ्गताप्येतन्मतेनाऽविरुद्धा। ननु द्विविधमपि नैगमनय इत्येतावत्युक्त निर्देश्यवशानिर्देशकवशाच्च निर्देशमिच्छतीति क्रियाध्यहारः कुतोऽवसीयते ?, उच्यते, यत आह 'निर्दिष्टं वस्त्वङ्गीकृत्य संग्रहो व्यवहारश्च, चस्य व्यवहितः सम्बन्धः, निर्देशमिच्छतीति वाक्यशेषः, इयमत्र भावना-इह वचनमर्थप्रकाशकमेवोपजायते प्रदीपवत् , यथा हि प्रदीपः प्रकाश्यं प्रकाशयन्नेवात्मरूपं प्रतिपद्यमानः प्रकाश्यादात्मलाभ लभते इति व्यपदिश्यते, तथा वचनमप्यर्थ प्रतिपादयन्नेवात्मरूपं प्रतिपद्यमानमर्थादात्मलाभ लभते इति व्यवह्रियते, अर्थश्च सावद्ययोगविरमणरूपो नपुंसकतया प्रसिद्धः इति सामायिकस्य नपुंसकलिङ्गतां सङ्ग्रहव्यवहारावभ्युपगच्छतः, तथा निर्देशको-वक्ता तमङ्गीकृत्य सामायिकनिर्देशं ऋजुसूत्रो मन्यते, स एवं वक्ति-वचनं का वक्तुराधीनं तद्भावभावित्वात् , यदेव वक्तुलिङ्ग तदेव वचनस्यापीति, यदा पुमान्निर्देष्टा तदा सामायिकस्य पुल्लिङ्गता, एवं स्त्री-T नपुंसकयोजना कार्या / तथा 'उभयसदृशं' निर्देश्यनिर्देशकसदृशं, समानलिङ्गमेव वस्त्वङ्गीकृत्य निर्देशप्रवृत्तिरिति वाक्यशेषः, एतदुक्तं भवति-उपयुक्तो हि निर्देष्टा निर्देश्यादभिन्न एव, तदुपयोगानन्यत्वात् / ततश्च पुंसः पुमांसमभिदधतः पुंनिर्देश एव, एवं // 166 //