SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः उद्देशे 8 भेदाः गा.१४२ // 164 // * * * 5, पुरुषश्च वक्तव्यः कुतः पुरुषादिदं प्रवृत्तं 6, कारणं किं कारणं गौतमादयः शृण्वन्ति ? 7, प्रत्याययतीति प्रत्ययः, अन्तर्भूतण्यादल, केन प्रत्ययेन भगवतेदमुपदिष्टं, को वा गणधराणां श्रवणे [प्रत्यय] इति 8, लक्षणं श्रद्धानादि 9, नया नैगमाद्याः 10, तेषां नयानां समवतारणं, क नयाः समवतरन्ति इति 11, अनुमतं, कस्य व्यवहारादेर्नयस्य किमनुमतं सामायिक 12, किं सामायिक 13, कतिविधं सामायिकं 14, कस्य सामायिकं 15, क्व क्षेत्रादौ सामायिकं 16, केषु द्रव्येषु सामायिक 17, कथं केन प्रकारेण सामायिकमवाप्यते 18, कियत्कालं स्यात्सामायिक 19, कियन्तः प्रतिपद्यन्ते पूर्वप्रतिपन्ना वा 20, सान्तरं निरन्तरं वा, यदि सान्तरं तर्हि किमन्तरं स्यात् 21, अविरहेण कियन्तं कालं प्रतिपद्यन्ते 22, उत्कृष्टतः कियतो भवान् यावदाप्यते सामायिक 23, आकर्षणमाकर्षों ग्रहणमिति भावः, तत्र कियन्त आकर्षा एकभवेऽनेकभवेषु वा 24, स्पर्शना कियत् क्षेत्रं सामायिकवन्तः स्पृशन्ति 25, निश्चिता उक्तिनिरुक्तिश्चतुर्णा सामायिकानां वक्तव्या 26 // 141 // एष उपोद्घातमूलद्वारगाथाद्वयसमासार्थः, अवयवार्थ तु प्रतिद्वारं नियुक्तिकृदेव वक्ष्यति, उद्देशद्वारावयवार्थप्रतिपादनायाह नाम ठवणा दविए, खेत्ते काले समास उद्देसे / उद्देसुद्देसंमि अ, भावंमि अ होइ अहमओ // 142 // यस्य जीवादेरुद्देश इति नाम क्रियते स नाम्ना उद्देशः, उद्देश इत्यक्षरन्यासः स्थापनोद्देशः, द्रव्यविषय उद्देशो द्रव्योद्देशः, | स द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरादिभेदात् त्रिधा, आद्ये द्वे प्रतीते, तद्व्यतिरिक्तस्त्रिधा-द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो द्रव्योद्देशः, द्रव्यस्य द्रव्यमिदं, द्रव्येण द्रव्यपतिरयं, द्रव्ये राजा * ** * * * EXXXXXXXXX // 164 // ** **
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy