________________ आवश्यकनिर्युक्तेरव चूर्णिः // 163 // शिष्यपरीक्षायां शैलादिदृष्टान्ताः उद्देशादीनि 26 द्वाराणि गा. 140141 इवायोग्याः। एष एव गोदृष्टान्तः प्रतिपक्षेऽपि योजनीयः, आद्येन चिन्तितं यद्यहमस्याश्चारिं न दास्ये ततः क्षुधा धातुक्षयादेषा मरिष्यति, लोकेऽवर्णवादो गोहत्या च भविष्यति, दातव्या चारिरिति, एवं शेषैरपि, लोके साधुवादोऽजनि, लभन्ते च प्रभूतमन्यदपि गवादिकं, एवं विनेयानामपि विनयादिकं कुर्वतां गुरुः प्रसन्नो विद्यां ददाति, नान्यथा 12 / भेरीदृष्टान्तः प्राग्वत् 13 / आभीरमिथुनं घृतवान् (घृतं) विक्रेतुं ग्रामं जगाम, शकटादुत्तारयतो भग्नो घटः, त्वया भग्न इति विवादे सन्ध्यायां शेष घृतं वृषभौ च चौरादिमिर्हतं, तौ महतो दुःखस्य भाजनमजायतां / एवं विनेयोऽन्यथा प्ररूपयन्नधीयानो वा परुषवाक्यैराचार्येण शिक्षितोऽधिक्षेपपुरस्सरं प्रतिवदति-यथा त्वयैवेत्थं शिक्षितोऽहं, किमिदानीं निहुषे इत्यादि / स न केवलमात्मानं संसारे पातयति, किन्त्वाचार्यमपि परुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनात् , स एकान्तेनायोग्यः, प्रतिपक्षभावनायामपि इदमेव कथानकं भावनीयम् / अन्याभीरयुग्मेन घृतघटे भग्ने मया भग्नं मया भग्नं इत्युक्तिः, त्वया सुष्टु अर्पितो मया न गृहीतः, एवं वदतोः प्रीतिः, एवं शिष्यो ब्रूते-सुष्टु न गृहीतं, गुरुबूते-सुष्टु न दत्तं, इत्थं ज्ञानवृद्धिः 14 / इत्थमाचार्यशिष्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः // 139 // इदानीमुपोद्घातप्रदर्शनायाह उद्देसे निद्देसे, निग्गमे खित्त काल पुरिसे अ। कारण पञ्चय लक्खण, नए समोआरणाऽणुमए // 14 // किं कइविहं कस्स, कहिं केसु कहं केचिरं हवइ कालं। कइ संतरमविरहिअं, भवागरिस फासण निरुत्ती॥ 141 // उद्देशो वक्तव्यः, एवं सर्वेषु क्रिया योज्या। उद्देशः सामान्याभिधानमध्ययनमिति 1, निर्देशो विशेषाभिधानं सामायिकमिति 2, निर्गमः कुतोऽस्य सामायिकाध्ययनस्य निर्गमनम् 3, क्षेत्रं कस्मिन् क्षेत्रे इदं प्रादुर्भूतम् 4, कालः कस्मिन्काले करस, कहिं कसुयायोज्या / उद्देश // 163 // क्षेत्र कस्मिन् /