________________ आवश्यक- निर्यक्रव- चूर्णिः // 161 // समत्थे इअ देअमच्छित्तिकारंमि // 1 // 1 / कुटोदाहरणं-कुटा घटा उच्यन्ते, ते द्विविधा-नवा जीर्णाश्च, जीर्णा द्विधा- शिष्यपरीभाविता अभाविताश्च, भाविताः द्विधाः-प्रशस्तभाविता अगुवादिभिः, अप्रशस्तभाविताश्च लशुनादिभिः, प्रशस्तभाविता वाम्या ||क्षायां शैलाअवाम्याश्च, एवमप्रशस्तभाविता अपि, येऽप्रशस्ताऽवाम्या ये च प्रशस्ता वाम्यास्ते न सुन्दराः, अभाविता न केनापि भाविताः, दिदृष्टान्ताः नवा अवाहाद( आपाकाद )वतारितमात्राः, एवमेव शिष्या नवा, ये मिथ्यादृष्टयस्तत् प्रथमतया ग्राह्यन्ते, जीर्णा अपि येऽभावितास्ते सुन्दराः, अथवा कुटाश्चतुर्विधाः-अधच्छिद्राः खण्डाः अकण्ठाः सम्पूर्णाङ्गाः, यस्यैकपाधै खण्डेन हीनता स खण्डकुटः, यदीच्छा तदासौ प्रयत्नेन सजीकर्तु पार्यन्ते / अयमकण्ठखण्डयोर्विशेषः। एवं शिष्या अपि चत्वारो वेदितव्याः, | यो व्याख्यानमण्डल्यामुपविष्टः सर्वमर्थमवबुद्ध्यते पश्चान्न किमपि स्मरति स छिद्रकुटसमानः, योऽर्द्धमात्रं त्रिभागचतुष्केण | हीनं वा सूत्रार्थमवधारयति यथावधारितं च स्मरति स खण्डकुटाभः 2, यस्तु किश्चिदूनं धारयति स्मरति च सोऽकण्ठाभः 3, यः सकलमप्याचार्योक्तं धारयति स्मरति च स सम्पूर्णकुटाभः 4 / आद्योऽयोग्यः, शेषा यथोत्तरं प्रवराः२। चालन्युदाहरणंचालन्यां यथा जलं शीघ्रं गलति, तथा शिष्यस्य सूत्रार्थों यदा कर्णे प्रविशतः तदैव विस्मृतौ स चालनीसमोऽयोग्यः, तथा च शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थमुक्तमेव भाष्यकृता-'सेलेअछिडुचालणि मिहो कहा सोउ उट्ठिआणं तु / छिड्डाह तत्थ चिट्ठो सुमरिंसु सरामि नेआणिं // 1 // एगेण विसइ बीएण नीइ कनेण चालणी आह / धन्नु त्थ आह सेलो जं पविसइ नीइ वा तुझं // 2 // ' (वि. 1463-4) इति / चालनीप्रतिपक्षस्तापसखपुरं, तत्र द्रवमपि न सवति // 3 // परिपूणको नाम घृतगलनं सुगृहीगृहं, तदुदाहरणं, स कचवरं धारयति घृतमुज्झति, एवं “वक्खाणाइसु दोसे