________________ आवश्यकनिर्युक्तेरव चूर्णिः शिष्यपरीक्षायां शैलादिदृष्टान्ताः गा. 139 कार्येष्वसौ आत्मच्छन्दमतिकः, गुर्वायत्तमतिरपि न सर्व एवाद्वेष्य इत्याह-'प्रस्थितो' यो योऽन्यः कोऽपि शिष्यो गन्तुमनास्तस्य द्वितीयः, तथा गन्तुकामश्च, सदैव गन्तुमना व्यवतिष्ठते, वक्ति च-कोऽस्य गुरोः सन्निधाने व्यवतिष्ठते ?, समर्थ्यतामेतत् श्रुतस्कन्धादि ततो यास्यामीति, तदेवम्भूतः शिष्यो न योग्यः श्रवणस्य // 137 // अथ गुणानाह-विनयोऽभिवन्दनस्तेनावनता विनयावनतास्तैरित्थम्भूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते कृतप्राञ्जलयस्तैः, छन्दो-गुर्वभिप्रायस्तं इङ्गिताकारा| दिना विज्ञाय तदध्यवसितश्रद्धानसमर्थनकरणकारणादिनाऽनुवर्तमानैः, एवमाराधितो गुरुजनः श्रुतं-सूत्रार्थोभयरूपं बहुविधमनेकप्रकारं लघु-शीघ्रं ददाति // 138 // अथ प्रकारान्तरेण शिष्यपरीक्षा प्रतिपादयतिसेलघण कुडग चालणि, परिपूणग हंस महिस मेसे अ। मसग जलूग बिराली जाहग गो भेरी आभीरी // 139 // एतानि शिष्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानि, उदाहरणं च द्विधा स्यात्-चरितं कल्पितं च, तत्रेदं कल्पितं, शैला-मुद्गलशैलो मुद्गप्रमाणपाषाणविशेषः, घनो मेघः, शैलश्च घनश्च शैलघनः, तदुदाहरणं-यथा मुद्गशैलः पुष्करावर्त्तश्च मेघः, तत्र नारदसहगेको नरः कलहं पश्यति (योजयति), स मुद्गशैलं भणति-तव नामग्रहणे कृते पुष्करावर्तो भणति-एकधारया तं | विदारयामि, शैलो भणति-यदि मे तिलतुषत्रिभागमप्यायति तदा नाम न वहामि, पश्चात्तेन शैलस्य वचनानि मेघस्य | कथितानि, स रुष्टो युगपन्मुशलप्रमाणधाराभिर्वर्षति, सप्तदिनान्ते भिन्नो भविष्यतीति स्थितः, नीरे उत्सरिते उज्ज्वलतरो दृष्टः, मेघो लजितो गतः। एवं कश्चिच्छिष्य एकमपि पदं न गृह्णाति, कश्चिदाचार्यो भणत्यहं ग्राहि(हयिष्यामि, पाठयितुमारब्धो न शक्नोति, लजितो गतः, ईदृशस्य न दातव्यं, प्रतिपक्षः कृष्णभूमिः 'बुद्धेवि दोणमेहे न कण्हभोमाउ लोट्टए उदयं / गहणधरणा // 16 //