________________ आवश्यकनियुक्तेरव चूर्णिः // 159 // शिष्यदोषगुणाः गा. 137-138 | शिष्यो न भवति, के च केषां विपरीतनियोक्ता ? आभरणानां जीर्णश्रेष्ठिदुहितेवेति / श्रावकोदाहरणं पूर्ववत् , नवरमुपसंहारः "चिरपरिचिअंपि न सरइ सुत्तत्थं सावगो सभजं व / जो न स जोग्गो सीसो गुरुत्तणं तस्स दूरेणं // 1 // " (वि. 1442) 4 / बधिरोदाहरणं पूर्ववत् , उपसंहारस्तु “अन्नं पुट्ठो अन्नं जो साहइ सो गुरू न बहिरो ब्व / न य सीसो जो अन्नं सुणेइ अणु(परि)भासए अन्नं // 1 // (वि. 1443) 5 / एवं गोहोदाहरणोपसंहारोऽपि वक्तव्यः 6 / टंकणव्यवहारोदाहरणं-इहोत्तरापथे टंकणा नाम म्लेच्छाः दक्षिणापथादायातवस्तूनि गृह्णन्ति, मिथो भाषां न जानते, एके पण्यपुझं अन्ये काञ्चनं मुश्चन्ति / | इच्छापूत्तौं गृह्णन्ति नान्यथा, एषामिष्टश्च व्यवहारो यथा, एवं-"अक्खेवनिन्नयपसंगदाणग्गहणाणुवत्तिणो दोवि / जोग्गा सिस्सायरिआ टंकणवणिओवमा एसा // 1 // " 7 / इत्थमुक्तप्रकारेण गवादिषु द्वारेषु साक्षादभिहितार्थविपर्ययः-प्रतिपक्षः, स आचार्यशिष्ययोर्यथायोग योजनीयः॥ 136 // अथ गाथाद्वयेन विशेषतः शिष्यदोषगुणान् प्रतिपादयन्नाह कस्स न होही वेसो अनन्भुवगओ अनिरुवगारी अ। अप्पच्छंदमईओ, पट्टिअओ गंतुकामो अ॥१३७ // विणओणएहिं, कयपंजलीहिं छंदमणुअत्तमाणेहिं / आराहिओ गुरुजणो, सुयं बहुविहं लहुं देह // 138 // ननु शिष्यदोषगुणानां विशेषाभिधानं किमर्थ?, उच्यते कालान्तरेण तस्यैव गुरुत्वभवनात् , अयोग्याय च गुरुपदनिबन्धनविधाने तीर्थकराज्ञादिलोपप्रसङ्गात् / कस्य गुरोर्न भविष्यति द्वेष्योऽप्रीतिकरः शिष्यः?, अपि तु भविष्यत्येव, किं सर्व एव ?, नेत्याह-अनभ्युपगतः-श्रुतसम्पदा अनुपसम्पन्नोऽनिवेदितात्मेति भावः, उपसम्पन्नोऽपि न सर्व एवाद्वेष्य इत्याह-निरुपकारी च' गुरूणां निरुपकारको गुरुकृत्येष्वप्रवर्तक इत्यर्थः, उपकार्यपि न सर्व एवाद्वेष्य इत्याह-आत्मच्छन्दा आत्मायत्ता मतिर्यस्य