SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः // 156 // |भाषकादि| स्वरूपं दृष्टान्ताश्च गा. 135 ननुयोगः शाम्बस्य, जाम्बवतीयमिति ज्ञातेऽनुयोगः 6 / श्रेणिककोपोदाहरण-चिल्लणायां पूर्वमननुयोगः, सतीत्वे ज्ञाते श्रेणिकस्यानुयोगः, एवमत्रापि [विपरीत]याथात्म्यवदनेन तौ // 134 // एवं तावदनुयोगः सप्रतिपक्षः सप्रपञ्चेनोक्तः, नियोगोऽपि | पूर्वप्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनायाहक२१ पुत्थे 2 चित्ते 3 सिरिघरिए 4 पुंड 5 देसिए 6 चेव / भामगविभासए वा, वत्तीकरणे अ आहरणा // 135 // काष्ठविषयो दृष्टान्तः-यथा काष्ठे कश्चित् रूपकारः स्वल्पाकारमात्रं करोति, कश्चित् स्थूलावयवनिष्पत्तिं, कश्चित् पुनरशेषोपाङ्गाद्यवयवनिष्पत्तिं, एवं काष्ठकल्पं सामायिकादिसूत्रं, तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्ते यथा समभावः सामायिकं, [विभाषकस्तु तस्यैवानेकधा अर्थमभिधत्ते यथा समभावः सामायिकं समानां वाऽऽयः समायः स एव स्वार्थे इकणप्रत्ययविधानात्सामायिकमित्यादि, व्यक्तिकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्तिअतिचारफलादिभेदभिन्नमर्थ भाषते, स च | निश्चयतश्चतुर्दशपूर्वविदेव, इह भाषकादिस्वरूपान्वाख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, भाषादीनां तत्प्रभवत्वात् 1 / एवं पुस्ते-लेप्यकर्मणि 2 चित्रकर्मणि च 3 / श्रीगृहं-भाण्डागारं तदस्यास्तीति श्रीगृहिकस्तदृष्टान्तः, तत्र कश्चिद्रत्नानां भाजनं वेत्ति, अन्यस्तेषां जाति प्रमाणं च, अपरस्तु तद्गुणानपि, एवमाद्यद्वितीयतृतीयकल्पा भाष्य(प)कादयो द्रष्टव्याः 4 / 'पुंड'मिति पद्मं, यथेषद्भिन्नमर्द्धभिन्नं विकसितं च त्रिधा भवति, एवं भाषा(पका)द्यपि क्रमेण 5 / देशनं देशः-कथनमित्यर्थः, सोऽस्यास्तीति देशिकः, तत्र कश्चिद्देशकः पन्थानं पृष्टः सन् दिग्मात्रमेव कथयति, कश्चित्तव्यवस्थितग्रामनगरादिभेदेन, कश्चित्पुनस्तदुत्थगुणदोषभेदेन, एवं भाषकादयोऽपि // 135 // तदेवं विभाग उक्तः, सम्प्रति द्वारविधिमवसरप्राप्तं विहाय व्याख्यान // 156 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy