________________ आवश्यकनिर्युक्तेरव भावानुयोगादौ दृष्टान्ताः चूर्णिः // 155 // आद्यमुदाहरणं श्रावकभार्या-श्राद्धः प्रियासखीं दृष्ट्राऽनुरागात् क्षीणः, प्रियया पृष्टः, कथितं माऽधृति कार्षीः, रात्री सखीवेषं कृत्वा सैव जगाव, व्रतभङ्गात्प्रातः खेदः मा विषादीः प्रियोक्तिः ज्ञातेऽनुयोगः पूर्वमननयोगः, एवं स्वसमयं योऽन्यसमयोऽयमिति ब्रूते, औदयिकभावलक्षणेन वा औपशमिकलक्षणं प्ररूपयतोऽननुयोगः 1 / द्वितीयं सप्तभिः पदैर्व्यवहरतीति सप्तपदिकस्तदुदाहरणं-एकत्र प्रत्यन्तग्रामे एकः क्षत्रियः, तत्य साधुभिरुपदिष्टं यथा सप्तपदी पश्चाद्गत्वा घातं दद्याः वङ्कचूलवत् , मारयामीत्यननुयोगः, भगिनीयमिति ज्ञाते पुंसोऽनुयोगः२। कोंकणकोदाहरणं-कोंकणकविषये पितापुत्रौ, पिता च सपत्नीपुत्रोऽस्तीति कन्यामलभमानः पुत्रं मारणेच्छुः, अरण्ये मुक्तबाणाऽऽनयनाऽऽदिष्टः पुत्रः, पृष्ठे बाणं मुक्तं, रक्ष पितः1, द्वितीये मुक्ते ज्ञातोऽभिप्रायः, अज्ञातेजनुयोगः ज्ञातेऽनुयोगः 3 / नकुलोदाहरणमिदं-चारभटी पदातिपत्नी, सुतनकुलौ, नकुलेन बालकापकारी सोऽमारि, तया सोऽपि, पूर्वमज्ञातेऽननुयोगः ज्ञातेऽनुयोगः, एवमसम्यक्सम्यक्प्ररूपणेऽननुयोगानुयोगी 4 / कमला| मेलोदाहरणं-सागरचन्द्रस्य शाम्ब कमलामेलां मन्यमानस्याननुयोगः, नाहं कमलामेला कमलामेलोऽहमिति भणितेऽनुयोगः, तथा कमलामेलया सह सागरचन्द्रे विवाहिते युद्धे विष्णुना शाम्बो ज्ञातः, अज्ञातेऽननुयोगः ज्ञातेऽनुयोगः 5 / शाम्बस्य साहसमुदाहरणं-जाम्बवत्या कृष्णं प्रति भणितं, मया पुत्रस्यानाडिता न दृष्टा, कृष्णेन प्रोचे दर्शयाम्यद्य, द्वाभ्यामाभीराभीरीरूपं कृतं शाम्बेनामीरी भणिता एहि गोरसं क्रीणामि, स एकस्यां देवकुलिकायां प्रविष्टः, आभीर्या भणितमहमत्रैव तिष्ठामि, तावता शाम्बो हस्ते लग्नः, आभीर आगतो द्वाभ्यां युद्धं कृतं, आभीरो वासुदेवो जातः आभीरी जाम्बवती, शाम्बोऽपि मातापितरौ दृष्ट्वा लज्जितो नष्टः, द्वितीयदिने कीलकं घटमानः कृष्णेन भणितं, पर्युषितं वचो वक्ति तस्य मुखे प्रक्षिप्यते, पूर्वम // 155 //