________________ आवश्यकनियुक्तेरव चूर्णिः // 153 // द्रव्याधनुयोगादौ | दृष्टान्ताः नामस्थापने सुगमे, द्रव्याननुयोगे तत्प्रसङ्गतो द्रव्यानुयोगे वत्सगावावुदाहरणं, कृष्णसितगोषु वत्सकव्यत्यये पयोऽलाभः, यथास्थिते तु तल्लाभः, एवमिहापि यदि जीवलक्षणेन द्रव्येणाजीवं प्ररूपयति अजीवलक्षणेन वा जीवं तर्झननुयोगो भवति, यतस्तं भावमन्यथा गृह्णाति तेनार्थो विसंवदति, अर्थेन विसंवदता चारित्रेण मोक्षः (मोक्षाभावः), मोक्षाभावे दीक्षा निरर्थिका, अथ जीवलक्षणेन जीवं प्ररूपयति अजीवलक्षणेन वा अजीवं, ततोऽनुयोगस्ततः कार्यसिद्धिः, तथाहि-अविकलोऽर्थावगमस्ततशरणवद्धिस्ततो मोक्ष इति / क्षेत्रानुयोगानुयोगयोः कुब्जोदाहरणं भाव्यते-प्रतिष्ठानेशशात(लि)वाहनो भृगुकच्छं वर्षे वर्षेऽरुणात् / एकदा यात्रां गतेनाऽऽस्थानमण्डपिकायां राज्ञा भूमौ थूत्कृतं, कच्चोलकधारिणा कुब्जिकादास्या परिवाराग्रे कथितं, प्रगे सैन्यं स्वयं चलितं, राजा रजोभयादेकान्ते स्थितः, अग्रगं सैन्यं दृष्टं, परम्परया ज्ञातं, पृष्टा, आख्यान्त्याः क्षेत्रमेतन्न परिभोग्य प्रभोः कुब्जिकाया अनुयोगोऽन्यथाऽननुयोगः, हारिभद्रीयवृत्तौ त्वेषोऽननुयोगस्तस्या मण्डपिकायाः क्षेत्रमेव चिन्त्यते, विपरीतोऽनुयोगः। एवं एकान्तनित्यमाकाशमप्रदेशं तथैककं ब्रुवतोऽननुयोगः स्यादनुयोगोऽन्यथा पुनः / कालाननुयोगानुयोगयोः स्वाध्यायोदाहरणं-एकं साधु रात्रौ स्वाध्यायं कुर्वाणं दृष्ट्वा मा भूच्छलमस्येति शासनसुरी तक्रघटं भृत्वा तक्रविक्रयध्वनि करोति, साधुना भणितं, का ते तकवेला ? सा भणति यथा तव स्वाध्यायवेला तथा ममापि तकवेला, तेन मिथ्यादुष्कृतं दत्तं, देव्या|नुशासितः-मा पुनरेवं करिष्यसि मिथ्यादृष्टिना छलिष्यसि, तस्याकाले स्वाध्यायं कुर्वतोऽननुयोगः। वचनविषयेऽननुयोगे दृष्टान्तद्वयं बधिरोल्लापोदाहरणं ग्रामेयकोदाहरणं च, तत्राद्य-एकस्मिन्नगरे बधिरकुटुम्ब परिवसति, स्थविरः स्थविरी, तस्याः पुत्रस्तस्य भार्या च, पुत्रो हलं वाहयति, तत्पार्चे पान्थेन पृष्टो मार्गः, तेन कथितं मम गृहजातौ वृषभावेतौ, भार्यया भक्तमानीतं // 153 // S