________________ आवश्यक निर्युक्तेरव चूर्णिः द्रव्याधनुयोगादौ दृष्टान्ता: गा. 133 // 152 // // 1 // " (वि.१४०८) व्याख्या-द्रव्ये इति द्रव्यविषयेऽनुयोगे नियमाद्भावो निश्चयेन भावानुयोगोऽस्ति, तदव्याख्याने द्रव्यस्य व्याख्यातुमशक्यत्वात् , 'न विणे'त्यादि तावपि द्रव्यभावानुयोगौ क्षेत्रकालानुयोगाभ्यां विना न भवतः, तद्विशिष्टत्वात्तयोः, तथाहि-पर्यायो भावस्तद्विशिष्टं द्रव्यं व्याख्यानयन्नवश्यमेव क्वचिदवगाढं व्याचष्टे स्थितिमच्चेति / तथा क्षेत्रानुयोगे क्रियमाणे त्रयाणामपि द्रव्यकालभावानां भजना, कदाचित्सन्ति, कदाचिन्नेति / अलोकलक्षणे हि क्षेत्रे विचार्यमाणे तत्र परमाण्वादिद्रव्यस्याभावादाकाशद्रव्यस्य च क्षेत्रद्वारेणैव गृहीतत्वाव्यानुयोगाभावः, समयादिरूपकालस्य च तत्राभावात्कालानुयोगाभावः, अगुरुलध्वादिक्षेत्रपर्यायाणामविवक्षितत्वात् , क्षेत्रग्रहणेनैव च तेषां गृहीतत्वाद्भावानुयोगाभावोऽपि भावनीयः, इत्यलोकक्षेत्रे त्रयोऽप्यनुयोगा न विद्यन्ते, लोके तु समयक्षेत्रादौ सन्तीति भजना, तथा त्रिष्वपि द्रव्यक्षेत्रभावेषु कालानुयोगो भजनीयः, कालो हि नाम द्विधा-वर्तनादिरूपः समयावलिकादिरूपश्च, आद्यः समस्तद्रव्यक्षेत्रभावव्यापी, समयावलिकादिलक्षणस्तु कालः समयक्षेत्रान्तर्वर्तिद्रव्यादिष्वस्ति बहिर्वतिषु तु नास्तीति भजना। ननु यद्येवं तर्हि 'न विणा ते यावि खित्तकालेहि' इत्यत्र कालमन्तरेण द्रव्यभावौ न भवत इति यदुक्तं तद्विरुध्यते, समयक्षेत्राहिस्तमन्तरेण तयोः सुलभत्वात् , सत्यं, किन्तु पूर्व वर्तनारूपस्यैव कालस्य विवक्षितत्वात् , तस्य च सर्वव्यापित्वात् , अत्र तु समयक्षेत्रनियतसमयादिरूपस्यैव कालस्य विवक्षितत्वाददोषः, विशेषार्थिना तु भाष्यविवरणमन्वेषणीयम् // 132 // उक्तोऽनुयोगः, एतद्विपरीतस्त्वननुयोगः, साम्प्रतमनुयोगाननुयोगप्रतिपादकदृष्टान्तप्रतिपादनार्थमाहवच्छगोणी 1 खुजा 2, सज्झाए 3 चेव बहिरउल्लावो 4 / गामल्लिए 5 य वयणे, सत्तेव य हुति भावंमि // 133 // // 152 // *XEEXXXEX