________________ अनुयोगनिक्षेपाः आवश्यकनियुक्तेरव चूर्णिः // 151 // बुद्ध्या अन्य बिभणिषुरपि सहसा यच्चेतसि तदेव वक्ति यत्तत् षोडशमध्यात्मवचनं, एषां षोडशानां वचनविशेषाणां स्वरूपा-| विर्भावनपरं व्याख्यानं वचनानामनुयोग इति / वचनेनानुयोगो यथा कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकेन बचनेन करोति, वचनैः स एव बहुभिरसकृदभ्यर्थितो वा इति, क्षायोपशमिके तु वचने स्थितस्यानुयोगो वचनेऽनुयोगः वचनेष्वेव बहुषु, अन्ये तु प्रतिपादयन्ति-वचनेषु नास्त्यनुयोगः, तस्य क्षायौपशमिकत्वात् तस्य चैकत्वात् 6, भावानुयोगो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतो भावस्यानुयोगोऽन्यतमस्यौदयिकादेाख्यानं, भावानां तु बहूनामौदयिकादिभावानां व्याख्यानं, भावेनानुयोगः सङ्ग्रहादीनां पश्चानामध्यवसायानामन्यतरेणाध्यवसायेन, उक्तं च-पंचहिं ठाणेहिं सुअं वाएज्जा, तंजहा-संगहट्टयाए उवग्गहट्ठयाए निजरट्ठयाए सुअपज्जवजाएणं अव्वोच्छित्तीए', अस्यार्थः-यदा आचार्यः शिष्यान् श्रुतं न ग्राहयति तदा तं परित्यज्य श्रुतार्थिनस्तेऽन्यत्र गच्छेयुरिति कथं नु नाम मया एते शिष्याः सङ्गृहीता भविष्यन्तीति बुद्ध्या श्रुतं वाचयति, उपग्रहार्थ तेषामेव शिष्यानामनुग्रहार्थमित्यर्थः, स्वकर्मनिर्जरणार्थ च, श्रुतपर्यवजातेन हेतुभूतेन वाचयेच्छिष्यान् , शिष्यान् वाचयतो ममापि श्रुतपर्यवराशिवृद्धिं यास्यति, ममापि श्रुतं निर्मलं भविष्यतीति कृतबुद्धिर्वाचयेदित्यर्थः, [श्रुतस्य शिष्यप्रशिष्यपरम्परागततया अव्यवच्छित्तिर्भूयादिति पञ्चममव्यवच्छित्तिः कारणं ] / भावैरेभिरेव द्वित्रादिभिः सर्वैर्वा, भावेऽनुयोगः क्षायोपशमिके भावे स्थितस्य व्याख्यानं कुर्वतः, भावेष्वाचारादिषु, अथवा प्रतिक्षणपरिणामत्वात् क्षयोपशमस्य भावेष्वनुयोगः, अथवा भावेषु नास्त्येव क्षयोपशमस्यैकत्वात् / एतेषां च द्रव्याद्यनुयोगानां परस्परसमावेशः स्वबुद्ध्या वक्तव्यः। उक्तं च भाष्यकारेण-"दब्वे नियमा भावो न विणा ते यावि खित्तकालेहिं / खित्ते तिन्हवि भयणा कालो भयणाए तीसुपि // 151 //