________________ JAI आवश्यकनिर्युक्तेरवचूर्णिः अनुयोगनिक्षेपाः // 15 // रूपत्वात् , क्षेत्राणां यथा द्वीपसागरप्रज्ञप्तिः, बहूनां द्वीपसमुद्राणां तया व्याख्यानात्, क्षेत्रेणानुयोगो यथा पृथिवीकायिकादिसजयाव्याख्यानं जम्बूदीपप्रस्थकं कृत्वा, उक्तं च-"जंबुद्दीवपमाणं पुढविजिआणं तु पत्थयं काउं। एवं मविज्जमाणा भवंति लोगा असंखिजा ॥१॥"क्षेत्रैरनुयोगो यथा-बहुद्वीपसमुद्रप्रमाणप्रस्थकं कृत्वा पृथिवीकायादिसङ्ख्याभणनं, क्षेत्रेऽनुयोगः तिर्यगलोके भरतादौ, क्षेत्रेष्वर्द्धतृतीयेषु द्वीपसमुद्रेषु 4, कालस्यानुयोगः समयस्यानुयोगः समयस्यानुयोगद्वारेषु प्ररूपणा, कालानां प्रभूतानां समयावलिकादीनां प्ररूपणा, कालेन यथा बादरवायुकायिकानां वैक्रियशरीराणि अद्धापल्योपमस्यासङ्ख्येयस्य भागमात्रेणापह्रियन्ते; कालैर्यथा प्रत्युत्पन्नत्रसकायिकाः प्रतिसमयमेकैकापहारेणापह्रियमाणा असङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्ते, कालेऽनुयोगो द्वितीयपौरुष्यां, कालेष्ववसर्पिण्यां त्रिष्वरकेषु सुषमाचरमभागे दुःषमसुषमायां [दुःषमायां च, उत्सर्पि. ण्यामरकद्वये दुःषमसुषमायां सुषमदुःषमायां च, वचनस्यानुयोग इत्थम्भूतमेकवचनं, वचनानां इत्थम्भूतान्येकवचन द्विवचनबहुवचनानि, यदिवा षोडशानां च वचनानामनुयोगः, तानि चामूनि-"लिंगतिअं३ वयणतिअं 6 कालतिअं९ तह परोक्ख 10 पञ्चक्खं 11 / उवणयऽवणयचउद्धा 15 अज्झत्थं 16 होइ सोलसमं" // 1 // व्याख्या-इयं स्त्री अयं पुरुष इदं कुलमिति त्रीणि लिङ्गप्रधानानि लिङ्गवचनानि, एको द्वौ बहव इत्येकत्वाद्यभिधायकशब्दसन्दर्भो वचनत्रिक, अकरोत् करोति करिष्यतीत्यतीतादिकालनिर्देशप्रधानं वचनं कालत्रिकमिति कालत्रिकवचनमित्यर्थः, तथा स इति परोक्षवचनं, अयमिति प्रत्यक्षनिर्देशः प्रत्यक्षवचनं, उपनयवचनं तु चतुर्दा भवति, तद्यथा रूपवती स्त्री सुशीला चेत्युपनयोपनयवचनं, रूपवती परं कुशीला इत्युपनयापनयवचनं, कुरूपा परं सुशीलेत्यपनयोपनयवचनं, कुरूपा कुशीला चेत्यपनयापनयवचनं, अन्यच्चेतसि निधाय विप्रतारक // 150 //