________________ | अनुयोगनिक्षेपाः गा. 132 आवश्यक-100 नाम ठवणा दविए, खित्ते काले य वयण भावे य / एसो अणुओगस्स उ णिक्खेवो होइ सत्तविहो॥१३२॥ | नियुक्तेरव- नामानुयोगो यस्य जीवादेरनुयोग इति नाम क्रियते, नाम्नो वानुयोगो नामानुयोगो-नामव्याख्येत्यर्थः, यदिवा नाम्नाचूर्णिः ऽनुरूपो योगो नामानुयोगः 1, स्थापना-अक्षनिक्षेपादिरूपा, तत्र योऽनुयोगं कुर्वन् स्थाप्यते सोऽनुयोगानुयोगवतोरभेदोप चारात स्थापनानुयोगः 2, द्रव्यानुयोगो द्विधा-आगमतो नोआगमतश्च, आगमतोऽनुयोगपदार्थज्ञाता तत्र चानुपयुक्तः, नो॥१४९॥ आगमतस्विधा, ज्ञशरीरभव्यशरीरे प्राग्वत् , तद्व्यतिरिक्तस्त्वनेकधा-द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यद्रव्ये द्रव्येषु वाऽनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षड्भेदयोजना कार्या, तत्र द्रव्यास्यानुयोगो द्विधा-जीवस्याजीवस्य च, एकैकोपि चतुर्दा, द्रव्यादिभेदात् , तत्र द्रव्यतो जीव एकं द्रव्यं, क्षेत्रतोऽसङ्ख्येयप्रदेशावगाढः, कालतोऽनाद्यपर्यवसितः, भावतोऽनन्तज्ञानानन्तदर्शनचारित्राचारित्रदेशचारित्रागुरुलघुपर्यायवानिति, एष जीवद्रव्यस्य द्रव्यादिभेदाच्चतुर्दाऽनुयोगः, अजीवद्रव्याणि परमावादीनि, तत्र परमाणुर्द्रव्यत एकं द्रव्यं क्षेत्रत एक प्रदेशावगाढः कालतो जघन्येन समयमेकं द्वौ वा उत्कृष्टतस्त्वसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः भावतः एकरस एकवर्णो द्विस्पर्श एकगन्धश्च, एतेषां च स्वस्थानेऽनन्ता रसादिपर्याया एकगुणतिक्तादिभेदेन द्रष्टव्याः, एवं घणुकादीनामप्यनन्ताणुस्कन्धपर्यवसानानां स्वरूपं द्रष्टव्यं, उक्तो द्रव्यस्यानुयोगः, एवं द्रव्याणामपि ज्ञेयः। एकया खटिकया एकेन प्रलेपेन एकेनाऽक्षादिना वा कृत्वा योऽनुयोगः क्रियते स द्रव्येणानुयोगः, यस्तु बहुभिरक्षादिभिः स द्रव्यैरनुयोगः, यस्तु द्रव्ये फलकादावुपविष्टेनानुयोगः क्रियते स द्रव्येऽनुयोगः, यस्तु प्रभूतासु निषद्याखवस्थितोऽनुयोगं करोति स द्रव्येष्वनुयोगः 3, एवं क्षेत्रस्य एकस्य जम्बूद्वीपादेरनुयोगो यथा जम्बूद्वीपप्रज्ञप्तिः, तस्या जम्बूद्वीपलक्षणैकक्षेत्रस्याख्यान // 149 //