SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः अनुयोगैकार्थिकानि गा. 131 // 148 // श्रुतस्य धर्मः-स्वभावः श्रुतधर्मः, श्रुतस्य बोधस्वभावत्वात् , श्रुतस्य धर्मो बोधोऽभिधीयते, अथवा [श्रुतस्य जीवपर्यायत्वात् श्रुतं च तद्धर्मश्च श्रुतधर्मः, सुगतिधारणात् श्रुतं धर्मोऽभिधीयते 1, तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-सङ्कः, तदुपयोगानन्यत्वादिह प्रवचनं तीर्थमुच्यते 2, मृज्यते-शोध्यतेऽनेनात्मेति मार्गः, मार्गणं वा मार्गः, शिवस्यान्वेषणमित्यर्थः 3, प्रगतमभिविधिना जीवादिषु पदार्थेषु वचनं प्रावचनं 4, जीवादितत्त्वानि प्रवक्तीति प्रवचनं 5, उक्तानि पञ्च प्रवचनैकार्थिकानि, अथ सूत्रकार्थिकान्याह-सूचनात्सूत्रं 1, तन्यतेऽनेनास्मादस्मिन्वा अर्थ इति तन्त्रं 2, अथ्यतेऽनेनास्मादस्मिन्नित्याद्यर्थः ग्रन्थः, ग्रथ्यते वा ग्रन्थः 3, पठनं पाठः पठ्यते वा तदिति पाठः, पठ्यतेऽनेनेत्यादि वाऽभिधेयं पाठः, व्यक्तीक्रियत इत्यर्थः४, शास्यतेजेनेत्यादि ज्ञेयमात्मा वा शास्त्रं 5, एकार्थिकानीति पुनरभिधानं सामान्यविशेषयोः कथञ्चिद्भेदख्यापनार्थ // 130 // ___ अथानुयोगैकार्थिकानि बिभणिषुराहअणुओगो य नियोगो, भास विभासा य वत्तियं चेव / अणुओगस्स उ एए, नामा एगहिआ पंच // 131 // सूत्रस्यार्थेन सहानुकूलं योजनमनुयोगः, यथा घटशब्देन घटोऽभिधीयते 1, नियतो निश्चितो वा योगः-सम्बन्धो नियोगः, यथा घटशब्देन घट एवोच्यते न पटादिः 2, भाषणं भाषा व्यक्तीकरणमित्यर्थः, यथा घटनाद् घटः 3, विविधा भाषा विभाषा-पर्यायशब्दैः स्वरूपकथनं यथा घटः कुटः कुम्भ इति 4, वार्तिकं त्वशेषपर्यायकथनं 5, एतान्यनुयोगस्य नामान्येकार्थिकानि पञ्च, एष गाथासमुदायार्थः, अवयवार्थ तु प्रतिद्वारं वक्ष्यति, तत्र प्रवचनादीनामविशेषेणैकार्थिकाभिधानप्रक्रमे सति एकाथिकानुयोगादेर्भेदेनान्वाख्यानमर्थगरीयस्त्वख्यापनार्थ // 131 // तत्रानुयोगाख्यप्रथमद्वारस्वरूपव्याचिख्यासयाह / / 148 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy