________________ आवश्यकनियुक्तेरव चूर्णिः प्रवचनश्रुता थैकार्थता | गा. 129 130 // 147 // तत्र जिनप्रवचनोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतोऽमिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानीं प्रवचनैकार्थिकानि तद्विभागं च गाथात्रयेण प्रतिपादयन्नाह' एगट्ठियाणि तिणि उ, पवयण सुत्तं तहेव अत्थो अ। इक्किकस्स य इत्तो, नामा एगट्ठिआ पंच // 129 // एकोऽर्थो येषां तान्येकार्थिकानि, त्रीण्येव, कानि?, प्रवचनं पूर्वव्याख्यातं, सूचनात्सूत्रं, अर्थस्तद्विवरणं, अर्यत इत्यर्थःअभिधेयं, चः समुच्चये / इह प्रवचनं सामान्यश्रुतज्ञानं, सूत्रार्थौ तु तद्विशेषौ, ननु सूत्रार्थयोः प्रवचनेन सहैकार्थता युक्ता, तद्विशेषत्वात् , सूत्रार्थयोस्तु परस्परविभिन्नत्वान्न युज्यते, यतः सूत्रं व्याख्येयमर्थस्तु तद्व्याख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतैव युज्यते प्रत्येकमेकार्थिकविभागसद्भावात्, अन्यथैकार्थिकत्वे सति भेदेनैकार्थिकाभिधानमयुक्तं, उच्यते, यथाहि मुकुलविकसितयोः पद्मविशेषयोः सङ्कोचविकाशपर्यायभेदेऽपि कमलसामान्यतयाभेदः, एवं सूत्रार्थयोरपि प्रवचनापेक्षया परस्परतश्चेति, तथाहि-अविवृतं मुकुलतुल्यं सूत्रं, तदेव विवृतं विकचकल्पमर्थः, प्रवचनं चोभयमपि, यथा चैषामेकार्थिकविभाग उपलभ्यते-कमलमरविन्दं पङ्कजमित्यादि पकार्थिकानि, तथा कुड्मल[वृन्तं] सङ्कुचितमित्यादि मुकुलैकार्थिकानि, तथा विकचं फुल्लं विबुद्धमित्यादि विकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थानामपि पद्मकुड्मलविकसितकल्पानामेकार्थिकविभागोऽविरुद्धः। अथवा अन्यथा व्याख्यायते-एकार्थिकानि त्रीण्येवाश्रित्य वक्तव्यानि, प्रवचनमेकार्थिकगोचरस्तथा सूत्रमर्थश्चेति, शेषं पूर्ववत् / | अत ऊर्द्धमेकैकस्य प्रवचनस्य सूत्रस्यार्थस्य च नामान्येकार्थिकानि पञ्च // 129 // अथ प्रवचनसूत्रयोः पञ्च पञ्चैकार्थिकान्याह सुयधम्म तित्थ मग्गो, पावयणं पवयणं च एगट्ठा / सुत्तं तंतं गंथो, पाढो सत्थं च एगट्ठा // 130 // // 147 //