SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ केवलखरूपं आवश्यकनियुक्तेरव चूर्णिः प्रवचनोत्प- . त्यादि गा. 127-128 // 146 // उत्पन्नकेवलज्ञान[केवलदर्शनश्च भगवान् सर्व वस्तु जानाति / तथा चाहसंभिण्णं पासंतो, लोगमलोगं च सवओ सव्वं / तं नत्थि जंन पासइ, भूयं भव्वं भविस्सं च // 127 // सम्-एकीभावेन भिन्नं सम्भिन्नं, यथा बहिस्तथा मध्योऽपीत्यर्थः, अथवा द्रव्यक्षेत्रकालभावलक्षणं सर्वमपि ज्ञेयं विषयत्वेन दर्शनीयं, तत्र सम्भिन्नमिति द्रव्यं विशेष्यं सूचितं, कालभावो तद्विशेषकौ, द्रव्यस्य पर्यायौ, ततस्ताभ्यां समन्ताद्भिन्नं द्रव्यं इति सम्भिन्नग्रहणेन त्रितयमपि सूचितं, तत्पश्यन्-उपलभमानो लोकं-धर्माद्याधारक्षेत्रं अलोकं च-तद्विपरीतं क्षेत्रं, अनेन क्षेत्रं प्रतिपादितं, एतावदेव चतुर्विधं ज्ञेयं, किमेकया दिशा पश्यन्नित्याह-सर्वतः-सर्वासु दिक्षु, तास्वपि किं कियदपि | द्रव्यादि उत नेत्याह-'सर्व' निरवशेष, अमुमेवार्थ स्पष्टयन्नाह-तन्नास्ति किमपि ज्ञेयं भूतम्-अतीतं, भव्यं-वर्तमानं, भविष्यच्चभावि, चः समुच्चये, यन्न पश्यति, केवलीति असौ निदर्शितः, एतस्मात्सामायिकादिश्रुतमाचार्यपारम्पर्येणायातं, एतस्माच्च जिनप्रवचनप्रसूतिरित्यादि, सर्व प्रासङ्गिकं नियुक्तिसमुत्थानप्रसङ्गेनोक्तं, इदानीमपि केयं जिनप्रवचनोत्पत्तिः? कियदभिधानं चेदं जिनप्रवचनं ? को वाऽस्याभिधानविभागः? इत्येतत्प्रासङ्गिकशेषं शेषद्वारसङ्ग्रहं चाभिधित्सुराहजिणपवयणउप्पत्ती, पवयणएगढिया विभागो य / दारविही य नयविही, वक्खाणविही य अणुओगो // 128 // इह 'जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि विभागश्च' एतत्रितयमपि प्रसङ्गशेष, द्वाराणि-उद्देशनिर्देशादीनि तेषां | विधिः-प्ररूपणं द्वारविधिः, अयमुपोद्घातोऽभिधीयते, नयविधिस्तूपक्रमादीनां मूलानुयोगद्वाराणां चतुर्थमनुयोगद्वारं, व्याख्यानस्य विधिर्व्याख्यानविधिः-शिष्याचार्यपरीक्षाभिधानं, अनुयोगः-सूत्रस्पर्शिकनियुक्तिः सूत्रानुगमश्चेति समुदायार्थः // 128 // // 146 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy