SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मावश्यकनिर्युक्तेरव चूर्णिः // 144 // इह च क्षीणदर्शनसप्तको निवृत्तिबादर उच्यते, तत ऊर्द्धमनिवृत्तिबादरो यावत्सङ्ख्याततम चरमलोभखण्डं, तत ऊर्द्धमसङ्ख्ये क्षपकश्रेणिः यानि लोभखण्डानि प्रतिसमयमेकैकं क्षपयन् सूक्ष्मसम्परायो यावच्चरमलोभांशक्षयः, अत ऊर्द्ध यथाख्यातचारित्री भवति, स गा. १२४च महासमुद्रप्रतरणपरिश्रान्तवत् मोहसागरं तीत्वा अनाभोगनिवर्तितेन करणेन विश्राम्यति, ततश्छद्मस्थवीतरागत्वद्विचरम- 126 समययोः प्रथमे समये निद्राप्रचले क्षपयति, चरमे समये पञ्चविधं ज्ञानावरणं चतुर्विधं दर्शनावरणं पञ्चविधमन्तरायं इति चतुईशप्रकृतीयुगपत् क्षपयित्वानन्तरसमये केवलज्ञानं केवलदर्शनं चोत्पादयति / अन्ये त्वेवमभिदधते तन्मतेन तिम्रोऽन्यकर्तृक्य इमा गाथाः वीसमिऊण नियंठो, दोहि उ समएहि केवले सेसे / पढमे निदं पयलं, नामस्स इमाओ पयडीओ // 124 // देवगइआणुपुव्वीविउविसंघयण पढमवजाइ / अन्नयरं संठाणं, तित्थराहारनामं च // 125 // . चरमे नाणावरणं पंचविहं दसणं चउवियप्पं / पंचविहमंतरायं, खवइत्ता केवली होइ // 126 // विश्रम्य क्षणं निग्रन्थः द्वाभ्यां समयाभ्यां केवले उत्पत्स्यमाने तयोर्द्वयोः प्रथमे निद्रां प्रचलां नाम्नश्चेमाः प्रकृतीः देवगत्यानुपूव्यों वैक्रियनाम(द्विक)प्रथमवर्जानि पञ्च संहननानि, यदात्मनोऽस्ति संस्थानं तन्मुक्त्वा पञ्च संस्थानानि, आहारकनाम, तीर्थकरनाम च यद्यतीर्थकरः क्षपकः, चेत्तीर्थकरस्तदाहारकमेव, चरमे समये ज्ञानावरणं पञ्चविधं मतिज्ञानावरणादि, दर्शनं चतुर्विकल्पं Kol // 144 // चक्षुर्दर्शनादि, पञ्चविधमन्तरायं च दानान्तरायादि क्षपयित्वा केवली भवति, एतच्च मतमसमीचीनं चूर्णिकृतो भाष्यकृतः एतास्तिस्रो गाथा हारिभद्रवृत्तौ नियुक्तित्वेन लिखिता अत एव अत्रापि तथैव नियुकिगाथात्वेन दर्शिताः, मलयगिरिवृत्तौ तु अन्यकर्तृका दर्शिताः /
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy