________________ क्षपकश्रेणिः आवश्यकनियुक्तेरव चूर्णिः // 143 // स्तरज्वा योग्यं स्थानं नीयते तथा जीवोऽपि यया कर्मपुद्गलसंहत्या विशिष्टं स्थान प्राप्यते, यया वोर्बोत्तमाङ्गाधश्चरणादिरूपो नियमतः शरीरविशेषो भवति साऽऽनुपूर्वी, तथा 'जातिनाम' एकेन्द्रियादियावच्चतुरिन्द्रियाः, चः समुच्चये, आतपनाम यदुदयादातपवान् भवति 9 एवमुद्योतं 10 स्थावराः पृथिव्यादयस्तन्नाम 11 'सूक्ष्म' सूक्ष्मनाम 12 चौ पूर्ववत् // 122 // 'साधारण मिति साधारणनाम अनन्तवनस्पतिनामेत्यर्थः 13, 'अपर्याप्त'मित्यापर्याप्तकं नाम 14 निद्रानिद्रं च 15 प्रचलापचलां च 16 स्त्याना चैतन्यऋद्धिर्यस्यां सा स्त्यानर्द्धिः पञ्चमी निद्रा तां 17, इह भाष्यकर्मग्रन्थादौ, अत्रान्तरे षोडशैव प्रकृतयः क्षप्यमाणत्वेनाभ्युपगम्यन्ते न सप्तदश, यतस्तन्मतेनापर्याप्तनामकर्म इह निक्षिप्यते (न क्षपयति) किं त्वयोगी द्विरुप(द्वा)सप्ततिकर्मप्रकृतिकदम्बमध्ये तत् क्षपयति, तस्मान्मतान्तरत्वेनेह सप्तदशानामुपन्यासो न विरुद्ध्यते, ततश्चापर्याप्त*वर्जषोडशप्रकृतीः क्षपयित्वा तदन्तरं यदष्टानां कषायाणां शेषं तत् क्षपयति, सर्वमिदं अन्तर्मुहूर्तेन, ततो नपुंसकवेदं, ततः | स्त्रीवेदं, ततो हास्यषष्टुं ततः पुरुषवेदस्य खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु सञ्जवलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः, नपुंसकादौ तु प्रतिपत्र्युपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादीश्चतुरः सज्वलनान् प्रत्येकमन्तर्मुहूर्त मात्रेण क्षपयति, क्षपणं चेषां खण्डत्रयादिकरणक्रमेण पुरुषवेदवद्वाच्यं, तथाहि क्रोधसत्कं तृतीयं खण्डं माने प्रक्षिपति, मानसत्कं मायायां, मायासत्कं लोभे, क्षपणकालश्च प्रत्येकं सर्वत्रान्तर्मुहूर्त्तप्रमाणो मन्तव्यः, श्रेणिरप्यन्तर्मुहूर्तमानैव, एकस्मिन्नप्यन्तर्मुहूर्ते लघुतराणां अन्तर्मुहूर्तानामसङ्ख्येयानां भावात् , लोभस्य तु तृतीयखण्डं सङ्ख्येयानि खण्डानि करोति, तानि च खण्डानि पृथक पृथक् कालभेदेन क्षपयति, तेषामपि च सङ्ख्याततमं चरमं खण्डमसङ्ख्येयानि खण्डानि करोति, तानि तु समये एकैकशः क्षपयति / // 143 //