SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव क्षपकवेणिः गा. 122123 चूर्णिः // 142 // क्षपयति, तदनन्तरं तथैव मिश्र, ततः सम्यक्त्वं, इह यदि बद्धायुःक्षपकश्रेणिमारभते, अनन्तानुबन्धिक्षयानन्तरं च मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यादर्शनोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिथ्यात्वस्याविनाशात् , क्षीणमिथ्यादर्शनस्तु नोपचिनोति, मूलाभावात् , तदवस्थश्च मृतोऽवश्यमेव त्रिदशेषूत्पद्यते, क्षीणसप्तकोऽप्यप्रतिपतितपरिणामस्त्रिदशेष्वेव, प्रतिपतितपरिणामस्तु नानामतिसम्भवाद्यथापरिणाम सर्वगतिभाग भवति, बद्धायुष्कोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न चारित्रमोहक्षपणाय यत्नमादधाति / ननु यदि दर्शनत्रिकमपि क्षयमुपनीतं ततः किमसौ सम्यग्दृष्टिरुतासम्यग्दृष्टिः, [उच्यते, सम्यग्दृष्टिः,] सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत्, तदसत् , अभिप्रायापरिज्ञानात् , इह निर्मदनीकृतमदनकोद्रवकल्या अपगतमिथ्यात्वपुद्गला एव यत्सम्यग्दर्शनं तदेव क्षीणं, यत्पुनरात्मपरिणामस्वभावं तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तन्न क्षीणं, अपि च तदतीवश्लक्ष्णशुद्धाभ्रपटलविगमेन मनुष्यदृष्टिरिव शुद्धजलानुगतं शुद्धवस्त्रमिव वा जलक्षये विशुद्धतरस्वरूपं भवति, यदि पुनरबद्धायुः क्षपकश्रेणिमारभते, ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहक्षपणाय यत्नमारभते, तत्क्षपणक्रमश्चायं-सम्यक्त्वस्य क्षपितशेषेऽवतिष्ठमान एवाप्रत्याख्यानप्रत्याख्यानावरणकषा| याष्टकं समकमेव क्षपयितुमारभते, एतेषु चार्द्धक्षपितेष्वन्याः षोडश प्रकृतीः क्षपयति, तत्प्रतिपादकमिदं गाथाद्वयं गइआणुपुव्वी, दो दो जाइनामं च जाव चउरिंदी। आयावं उज्जोयं, थावरनामं च सुहमं च // 122 // साहारणमपज्जतं, निद्दानिदं च पयलपयलं च / थीणं खवेइ ताहे अवसेसं जं च अट्ठण्हं // 123 // गतिश्चानुपूर्वी च गत्यानुपूव्यौँ द्वे द्वे, नरकगति 1 नरकानुपूर्वी 2 तिर्यग्गति 3 तिर्यगानुपूर्वी 4, यथा वृषभो नासिकान्य 88888838388** // 142 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy