________________ उपशम आवश्यक निर्युक्तेरव चूर्णिः श्रेणि दूरन्तकषा यसामध्ये // 14 // च गा. 117-118 | मत्यादिचतुर्जानिनस्तदावरणोदये इति // 116 // स्थापना // इह च सङ्ख्येयानि लोभखण्डानि उपशमयन् बादरसम्पराय उच्यते; | चरमस्य तु सङ्ख्येयखण्डस्यासङ्ख्येयानि खण्डानि प्रतिसमयमेकैकखण्डमुपशमयन् सूक्ष्मसम्परायः, तथा चाहलोभाणु वेअंतो, जो खलु उवसामओ व खवगो वा। सो सुहमसंपराओ, अहक्खाया ऊणओ किंची // 117 // सवलनलोभस्याणून-सङ्ख्येयतमस्य खण्डस्यासङ्ख्येयानि खण्डानि वेदयमानोऽनुभवन् य उपशमकः क्षपको वा भवति सोऽन्तर्मुहूर्त्तकालं यावत्सूक्ष्मसम्परायो भवति, अयं च यथाख्यातात् किञ्चिदूनः, किमुक्तं भवति ?, सूक्ष्मसम्परायावस्थामन्तमुहूर्त्तकालमानामनुभूयं उपशमनिर्ग्रन्थो यथाख्यातचारित्री भवति, इह यदि बद्धायुरुपशमश्रेणिमध्यगतगुणस्थानवी उपशान्तमोहो वा भूत्वा कालं करोति तदा नियमेनानुत्तरसूरेषूत्पद्यते, श्रेणिप्रतिपतितस्य कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनात् , अथावद्धायुस्तां प्रतिपन्नस्तर्हि अन्तर्मुहूर्त्तमुपशान्तमोहो भूत्वा नियमतः पुनरप्युदितकषायः कात्स्न्येन श्रेणिप्रतिलोममावर्त्तते // 117 // तथा चैतदेव दूरन्तं कषायसामर्थ्यमुकीर्तयन्नाहउवसामं उवणीआ, गुणमहया जिणचरित्तसरिसं पि। पडिवायंति कसाया, किं पुण सेसे सरागत्थे ? // 118 // उपशमनमुपशमस्तं, अपेः क्षयोपशममपि, उपनीताः, केन?, गुणैर्महान् गुणमहान् तेन गुणमहता उपशमकेन, प्रतिपातयन्ति कषायाः संयमात्संसारे वा, कम् ?, तमेवोपशमकं, किंविधं ? जिनस्य केवलिनश्चारित्रेण कृत्वा सदृशस्तुल्यो जिनचारित्रसदृशस्तमपि, द्वयोरपि कषायोदयरहितचारित्रयुक्तत्वात् , एवम्भूतमपि प्रतिपातयन्ति अन्तर्मुह नियमेन, प्रतिपतितश्च संसारं पर्यटति, स तावत्तद्भव एव निर्वाणं न लभते, उत्कृष्टतस्तु देशोनमर्द्धपुद्गलपरावर्त्तमपि संसारमनुवनाति // 118 // // 14 //