________________ उपशमश्रेणिः आवश्यकनिर्युक्तेरव चूर्णिः // 139 // सञ्चलनक्रोधमेकाकिनमेव, तत एवमेवाऽप्रत्याख्यानप्रत्याख्या नौ मानौ सज्वलनमानं, अप्रत्याख्यानप्रत्याख्यानमाये सवलनमायां, अप्रत्याख्यानप्रत्याख्यानलोभी सवलनलोभ, तं चोपशमयंत्रिधा करोति, तत्र द्वौ भागौ युगपदुपशमयति, तृतीयभागं तु सङ्ख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति, पुनः सङ्ख्येयखण्डानां चरमखण्डमसयेयानि खण्डानि करोति, सूक्ष्मसम्परायः ततः समये समये एकैकखण्डमुपशमयति, इह दर्शनसप्तके उपशान्तेऽपूर्वकरणो निवृत्तिबादरो वाऽभिधीयते / तत ऊर्द्धमनिवृत्तिबादरो यावत्सङ्ख्येयान्तिमद्विचरमखण्डं / ननु सञ्जवलनादीनां युक्त इत्थमुपशमः, अनन्तानुबन्धिनां तु दर्शनप्रतिपत्तावेवोपशमितत्वात् न युज्यते, उच्यते, दर्शनप्रतिपत्तौ तेषां क्षयोपशमादिह चोपशमादविरोधः, ननु क्षयोपशमोपशमयोरेव कः प्रतिविशेषः ?, उच्यते, क्षयोपशमो ह्युदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकानुभवापेक्षयोपशमः, प्रदेशानुभवतस्तूदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्ति, उक्तं च भाष्यकारेण 'वेएइ संतकम्मं खओवसमिएसु नाणुभावं सो। उवसंतकसाओ पुण वेएइ न संतकम्मपि // 1 // (वि. 1293) ननु संयतस्यानन्तानुबन्धिनामुदयो निषिद्ध एव तत्कथमुपशमः?, उच्यते, स ह्यनुभावकर्माङ्गीकृत्य न तु प्रदेशकर्म, तथा चोक्तमार्षे-'जीवे णं भंते ! सयं कडं कम्मं वेएइ ?, गोअमा! अत्थेगइअं वेएइ अत्थेगइअंनो वेएइ, से कणद्वेणं? भंते ! पुच्छा, गोअमा! दुविहे कम्मे पन्नते, तंजहा-पएसकम्मे अ अणुभावकम्मे अ, तत्थ णं जंतं पएसकम्मं तं निअमा वेएइ, तत्थ णं जं तं अणुभावकम्मं तं अत्थेगइअं वेएइ अत्वेगइयं नो वेएइ, इत्यादि, ततश्च प्रदेशकर्मानुभवोदयस्यहोपशमो द्रष्टव्यः / आह-यद्येवं तर्हि संयतस्यानन्तानुबन्ध्युदयतः कथं दर्शनविघातो न भवति ?, उच्यते, प्रदेशकर्मणो मन्दानुभावत्वात् , तथा कस्यचिदनुभावकर्मानुभवोऽपि नात्यन्तमपकाराय भवन्नुपलभ्यते, यथा सम्पूर्ण // 139 //