________________ Y आवश्यकनियुक्तेरव उपशम श्रेणिः . चूर्णिः // 138 // सुसाधवः वजन्त्यजरामरं-न विद्यते जरा यत्र तदजरं, तथा न वियते प्राणी यत्र तदमरं, अजरं च तदमरं चाजरामरं-मोक्षलक्षणं स्थानं, इदं च चारित्रं द्विधा-छाद्मस्थिकं कैवलिकं च; आद्यमुपशान्तमोहगुणस्थाने क्षीणमोहगुणस्थाने च, कैवलिकं तु |सयोगिकेवलिभवमयोगिकेवलिभवं च // 115 // तत्र पञ्चानामाद्यं चारित्रत्रयं क्षयोपशमलभ्यं, अन्त्यचारित्रद्वयं तूपशम-2 क्षयलभ्यमेव, अतः कर्मोपशमक्रमप्रदर्शनार्थमाह अणदंसनपुंसित्थी, वेयछक्कं च पुरिसवेयं च / दो दो एगन्तरिए, सरिसे सरिसं उवसमेइ // 116 // इहोपशमश्रेणिप्रारम्भकोअमत्त संयत एव भवति, अन्ये तु अविरत देशविरत प्रमत्तसंय[ताप्रमत्तसंय]तानामन्यतम इति वदन्ति, श्रेणिपरिसमाप्तौ चाप्रमत्तःप्रमत्तो वा स्यात् / स चैवमारभते-तत्राणन्ति शब्दयन्त्यविकलहेतुत्वेनासातवेद्यं नारकाद्यायुष्कमित्यणाः-आद्याः क्रोधादयः, अथवानन्तानुबन्धिन एवानाः, समुदायशब्दानामवयवे वृत्तिदर्शनात् , तत्रासौ प्रतिपत्ता प्रशस्तेष्वध्यवसायेषु वर्तमानःप्रथम युगपदन्तर्मुहर्त्तमात्रेण कालेनानन्तानुबन्धिनः क्रोधादीनुपशमयति, एवं सर्वत्र युगपदुशामककालोऽन्तर्मुहुर्त प्रमाण एव ज्ञेयः, ततो दर्शनं मिथ्यात्वमिश्रसम्यक्त्वरूपं त्रिविधं युगपदेव, यदि पुरुषः प्रारम्भकस्ततो नपुंसकवेदमनुदीर्णमपि, ततोऽनुक्रमेण स्त्रीवेदं, 'षट्वमिति हास्यरत्यरतिशोकभयजुगुप्सारूपं, पुरुषवेदं, अथ स्त्री प्रारम्भिका तत आदौ नपुंसकवेदं पुरुषवेदं हास्यपदं स्त्रीवेदं, अथ नपुंसकः प्रारम्भकस्ततोऽसावनुदीर्णमपि आदी स्त्रीवेदं पुरुषवेदं हास्यपटूं नपुंसकवेदमिति, ततो द्वौ द्वौ क्रोधाद्यौ 'एकान्तरितौ' सज्वलनविशेषक्रोधाद्यन्तरितो, 'सदृशौ' क्रोधादितया परस्परं तुल्यौ, सदृशं युगपदेव प्रत्येकमन्तर्मुहूर्तेन, तथाहि-अप्रत्याख्यानप्रत्याख्यानावरणौ क्रोधौ क्रोधत्वेन सदृशौ, युगपदन्तर्मुहूर्त्तमात्रेणोपशमयति, ततः ************** 8 //