________________ परिहारविशुद्धिा चूर्णिः आवश्यक-1001 क्रमेण षष्ठमष्टमं दशमं च, वर्षासु चाष्टमं दशमं द्वादशमं च, पारणके आचाम्लं भिक्षे चाये द्वे न ग्राह्ये पञ्च ग्राह्याः, वाचनानियुक्तेरव- चार्यानपरिहारिकाः प्रतिदिनमाचाम्लं कुर्वन्ति, एवं षण्मासान् यावत् , ततो वैपरीत्येन षण्मासान यावत् अनुपरिहारिकाः परिहारितां प्रतिपद्यन्ते इतरे चानुपरिहारिकतां, ततोऽपि षण्मासी यावद्वाचनाचार्यः परिहारिकः एको वाचकः सप्तानुपरि हारिकाः, एवमष्टादशमासाः, ततो जिनकल्पं गच्छं वा प्रतिपद्यन्ते, एतेषां यच्चरणं तत्परिहारविशुद्धिक, एते च परिहार॥१३७॥ विशुद्धिका द्विधा-इत्वरा यावत्कथिकाश्च, ये कल्पसमाप्त्यनन्तरमेव स्थविरकल्पं गच्छ वा समुपयास्यन्ति ते इत्वराः, ये तु कल्पसमाप्त्यनन्तरमव्यवधानेन जिनकल्पं प्रतिपत्स्यन्ति ते यावत्कथिकाः। अत्र स्थविरकल्पग्रहणमुपलक्षणं स्वकल्पे चेति द्रष्टव्यं, तत्रेत्वराणां कल्पप्रभावादेव देवमनुष्यतिर्यग्योनिककृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषह्याश्चातीववेदना न प्रादुःषन्ति, यावत्कथिकानां पुनः सम्भवेयुरपि, ते हि जिनकल्पं प्रतिपत्स्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानां चोपसर्गादयः सम्भवन्ति / तथेत्यानन्तर्ये गाथाभङ्गभयाव्यवहितोपन्यासः, सूक्ष्ममित्यनुस्वारोऽप्यलाक्षणिकः, सूक्ष्मसम्परायं चतुर्थ चारित्रं, सम्पर्येति संसारमनेनेति सम्परायः-कषायोदयः सूक्ष्मो लोभांशावशेषत्वात्सम्परायो यत्र तत्सूक्ष्मसम्परायं, तच्च द्विधाविशुद्ध्यमानकं संक्लिश्यमानकं च, तत्राद्यं क्षपकश्रेणिमुपशमणिं वारोहतः, इतरतु उपशमश्रेणितः प्रच्यवमानस्य, चः समुच्चये // 114 // 'ततश्च' सूक्ष्मसम्परायानन्तरं 'अथाख्यातं' अथशब्दो यथार्थे, आङ् अभिविधौ याथातथ्येनाभिविधिना च यदाख्यातंकथितमकषायं चारित्रमिति तदथाख्यातं, यथाख्यातं चास्य द्वितीयं नाम, तस्यायमन्वर्थः-यथा सर्वस्मिन् जीवलोके ख्यातंप्रसिद्धमकषायं भवति चारित्रमिति तथैव यत्, तथा यत् चारित्रं चरित्वा-आसेव्य शोभनं विहितमनुष्ठानं येषां ते सुविहिताः RECERRORIESAXY // 137 //