________________ आवश्यकनियुक्तेरव चूर्णिः // 136 // सामायिका दीनि चारि त्राणि तथा 'जिट्ट'त्ति ज्येष्ठपदे स्थिता एव, किन्त्वाद्यान्त्यजिनसाधूनामुपस्थापनया ज्येष्ठः, तेषां सामायिकारोपणेन / प्रति. क्रमणेऽस्थिताः आद्यान्त्यजिनसाधूनां नियमेनोभयकालं प्रतिक्रमणं, तेषां त्वनियमः, दोषाभावे सर्वकालमप्यप्रतिक्रमणं कल्पशब्द उभयत्र योज्यते, मासकल्पेऽप्यस्थिताः कथं?, आद्यान्त्यजिनसाधूनां नियमेन मासकल्पव्यवहारः, मध्यमजिनसाधूनां तु दोषाभावे न विद्यते 9 / एवं पर्युषणाकल्पोऽपि वक्तव्यः तस्मिनप्यस्थिता एवेत्यर्थः 10 / विस्तरार्थस्तु कल्पादवगन्तव्यः / अथ प्रकृतमुच्यते-ननु आद्यान्त्यजिनसाधूनामपि यदित्वरं सामायिकं, तत्रापि 'करोमि भदन्त ! सामायिक यावज्जीव'मिति इत्वरस्याप्याभवग्रहणात्तस्य चोपस्थापनायां परित्यागात्कथं न प्रतिज्ञालोपः ?, उच्यते-अतिचाराभावात्तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन संज्ञामात्रविशेषात् / चशब्दो वाक्यालङ्कारे, तथा 'छेदोपस्थापनं भवेत् द्वितीयं, तत्र छेदः पूर्वपर्यायस्य उपस्थापना च महाव्रतेषु यस्मिंश्चारित्रे तच्छेदोपस्थापनं, तच्च द्विधा-सातिचारं निरतिचारं च, तत्र निरतिचारं यदित्वरसामायिकवतः शैक्षकस्यारोप्यते, तीर्थान्तरसङ्क्रान्तौ वा, यथा पार्श्वनाथतीर्थाद्वर्द्धमानतीर्थ सङ्क्रामतः पञ्चयामधर्मप्रतिपत्तौ, सातिचारं तु यन्मूलगुणघातिनः पुनव्रतोच्चारणं, उभयमपि चाद्यान्त्यजिनतीर्थे, तथा परिहरणं परिहारस्तपोविशेषस्तेन विशुद्धिर्यस्मिंश्चारित्रे तत्परिहारविशुद्धिकं, तच्च द्विधा निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकाःविवक्षितचारित्रसेवकास्तदव्यतिरेकाच्चारित्रमपि निर्विशमानकं, एवमग्रेऽपि, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायाः, त एव स्वार्थिककप्रत्यये निर्विष्टकायिकाः। इह नवको गणः, चत्वारः परिहारिकाः, चत्वारस्तद्वैयावृत्त्यकरा अनुपरिहारिका, एको गुरुभूतो वाचनाचार्यः, तपश्च परिहारकाणां ग्रीष्मे जघन्यं चतुर्थ मध्यमं षष्ठं उत्कृष्टमष्टमं, शिशिरे जघन्यादिभेदानु // 136 //