SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव स्थितास्थितकल्पाः चूर्णिः // 135 // गाथा-"आचेलक्कु 1 देसिअ 2 सेज्जायर 3 रायपिंड 4 किइकम्मे 5 / वय 6 जिट्ठ 7 पडिक्कमणे 8 मासं 9 पजोसणकप्पो 10 // 1 // " अस्या अर्थः-एतेषु चतुर्यु कल्पेषु स्थिताः, ते चामी-"सिजायरपिंडे या चाउजामे अ२ पुरिसजिढे अ३। किइकम्मस्स य करणे 4 चत्तारि अवविआ कप्पा // 2 // शेषेषु षट्सु अस्थिताः, तत्र न विद्यते चेलमस्यासावचेलकः, तद्भावोऽचेलकत्वं, तत्राऽस्थिताः, एतदुक्तं भवति-न वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमजिनतीर्थसाधुवत् अचेलत्वे स्थिताः, | कुतः, तेषामृजुप्रज्ञत्वान्महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात् , आद्यान्त्यजिनतीर्थवर्तिसाधूनां तु ऋजुवक्रजडत्वान्महाधनमूल्यादिवस्त्रापरिभोगात् जीर्णादिपरिभोगाचाचेलकत्वं, ननु जीर्णादिवस्त्रादि(स्त्र)सद्भावे कथमचेलत्वं ?, उच्यते, तेषां जीर्णत्वादसारत्वादल्पत्वाद्विशिष्टार्थक्रियाऽप्रसाधकत्वात् , तथेत्थम्भूतवस्त्रसद्भावेऽपि लोकेऽप्यचेलकत्वव्यपदेशो दृश्यत एव 1 / तथा औद्देशिकेऽप्यस्थिता एव, कथं ?, आद्यान्त्यजिनसाधुमुद्दिश्य कृतमशनादि सर्वेषामकल्पनीयं, मध्यमानां तु यमुद्दिश्य कृतं तस्यैवाकल्पनीयं न शेषाणां / पिण्ड[ग्रहणं] उभयत्र सम्बध्यते, तत्र शय्यातरपिण्डे स्थिता एव, स हि यथाऽऽद्यान्त्यजिनसाधूनामकल्प्यः, एवं मध्यमजिनसाधूनामपि 3 / राजपिण्डे चास्थिताः, कथं ?, आद्यान्त्यजिनसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावे गृह्यते 4 / तथा कृतिकर्म वन्दनमाख्यायते, तत्रापि स्थिताः, कथं ?, यथाऽऽद्यन्त्यजिनसाधूनां प्रभूतकालप्रवजिता अपि संयत्यः पूर्व वन्दनं कुर्वन्ति एवं मध्यमानामपि, यथा वा क्षुल्लका ज्येष्ठार्याणामेवं तेषामपि 5 / व्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि, तेष्वपि स्थिताः, यथाद्यन्त्यजिनसाधवो व्रतानुपालनं कुर्वन्ति, एवं तेऽपि, ननु तेषां मैथुनविरतिवजोनि चत्वारि व्रतानि तत्कथं स्थिताः?, उच्यते, तस्य परिग्रहेऽन्तर्भावात्स्थिता एव, तथा च नापरिगृहीता योषिदुपभोक्तुं पार्यते 6 / // 135 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy