________________ आवश्यकनियुक्तेरक चूर्णिः // 134 // नानामेवोदयतो भवन्ति, तुरेवार्थः, द्वादशानां पुनः कषायाणामुदयतः मूलच्छेद्यं भवति, मूलेन-अष्टमस्थानवर्त्तिना प्रायश्चितेन छिद्यते-अपनीयते यद्दोषजातं तन्मूलच्छेद्यम् , अशेषचारित्रोच्छेदकारीति भावः // 112 // यतश्चैवमत आह चारसविहे कसाए, खइए उवसामिए व जोगेहिं / लन्भइ चरित्तलंभो, तस्स विसेसा इमे पंच // 113 // | द्वादशविधे-अनन्तानुबन्ध्यादिभेदभिन्ने कषाये-क्रोधादिरूपे क्षपिते-विध्याताग्नितुल्यतां नीते, उपशमिते-भस्मच्छन्ना- ग्निकल्पता प्रापिते, वाशब्दात् क्षयोपशमे(मिते) च-अर्द्धविध्यातज्वलनसमतामुपनीते, योगैः-मनोवाकायलक्षणैः प्रशस्तैर्हेतुभूतैः, किं ?, लभ्यते चारित्रलाभः, 'तस्य चारित्रस्य विशेषाः-भेदा इमे-वक्ष्यमाणाः पञ्च // 113 // तानेवाह गाथाद्वयेन सामाइयं च पढम, छेओवट्ठावणं भवे बीयं / परिहारविसुद्धीयं, सुहुमं तह संपरायं च // 114 // तत्तो य अहक्खायं, खायं सव्वंमि जीवलोगंमि / जं चरिऊण सुविहिआ, वच्चंतयरामणं ठाणं // 115 // | समानां-ज्ञानदर्शनचरित्राणामायः समायस्तेन निवृत्तं तत्र भवं वा सामायिक-सर्वसावद्ययोगविरतिरूपं, ततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिक, छेदादिविशेषैस्तु विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावासामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरं, तच्च [भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितव्रतस्य शैक्षकस्य विज्ञेयं, यावत्कथिकं प्रव्रज्याप्रतिपत्तिकालादारभ्याप्राणोपरमात् , तच्च महाविदेहतीर्थकरतीर्थेषु ] भरतैरावतभाविमध्यमद्वाविंशतितीर्थेषु च साधूनामवसेयं, तेषामुपस्थापनाया अभावात् , अत्र च प्रसङ्गतो मध्यमवैदेहपुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधस्थितास्थितकल्पः प्रदर्शते-तत्र ग्रन्थान्तरे विवक्षितार्थप्रतिपादिकेयं कषायोपशमक्षयक्षयोपशमे चारित्रलाभः |चारित्र भेदाश्च गा. 113115 // 134 //