________________ आवश्यकनियुक्तेरव चूर्णिः // 133 // कषायोदये मूलगुणादी नामलाभ: | अतिचार / हेतुश्च गा. 111 112 मस्तीत्युक्तं, नञा प्रतिषिद्धत्वात् , इहापि चावरणशब्देन प्रत्याख्याननिषेधात् क एषां प्रतिविशेषः?, उच्यते, तत्र नञ् सर्वनिषेधे इह त्वाडो मर्यादेषदर्थवचनत्वात् , [ईषद् ] मर्यादया [वा] वृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवावरणशब्दो न देशविरतिनिषेधे, तथा चाह-देशश्च एकदेशश्च देशैकदेशौ तत्र देशः-स्थूरप्राणातिपातादिः, एकदेशस्तु-तस्यैव दृश्यवनस्पतिकायाद्यतिपातः, तयोर्विरतिः-निवृत्तिस्तां, लभन्त इति वाक्यशेषः, अत्रापि वाक्यशेषः तुशब्दात् क्षिप्त एव द्रष्टव्यः, अन्यजन्मो-| पाताष्टविधकर्मसञ्चयापचयाय चरणं-सर्वसावद्ययोगनिवृत्तिरूपं चारित्रं तस्य लाभं न लभन्ते, तुशब्दाद्देशैकदेशविरतिं लभन्त एव // 110 // अथामुमेवार्थ सगृह्य बिभणिषुश्चतुर्थकषायानाह (पुस्तथा चतुर्थकषाणां यथाख्यातचारित्रादिविघातित्वं चाह) मूलगुणाणं लभं न लहइ, मूलगुणघाइणं उदए / उदए संजलणाणं, न लहइ चरणं अहक्खायं // 111 // सम्यक्त्वं महाव्रतान्यणुव्रतानि च मूलभूता गुणा मूलगुणा उत्तरगुणाधारा इत्यर्थः, तेषां लाभं न लभते, कदा?, मूलगुणान् घातयितुं शीलं येषां ते मूल[गुण]घातिनः अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणा द्वादशकषाया इत्यर्थस्तेषामुदये, तथा सम्-ईषत् परीषहादिसम्पाते चारित्रिणमपि ज्वलयन्तीति सज्वलनास्तेषामुदये न लभते चरणं-चारित्रं, यथैव तीर्थकरगणधरैराख्यातं यथाख्यातमकषायमित्यर्थः, सकषायं तु लभते // 111 // न च यथाख्यातचारित्रमात्रोपघातिन एव सञ्चलनाः किन्तु शेषचारित्रदेशोपघातिनोऽपि, तदुदये शेषचारित्रस्यापि देशतोऽतिचारसम्भवात्तथा चाह- . सब्वेऽविअ अइयारा, संजलणाणं तु उदयओ हुंति / मूलच्छिजं पुण होइ, बारसण्हं कसायाणं // 112 // सर्वे आलोचनादिच्छेदपर्यन्तसप्तविधप्रायश्चित्तशोध्याः, अपेः कियन्तोऽपि चातिचाराः-चारित्रस्खलनाविशेषाः सवल // 133 // आ०चू०१२