________________ बावश्यकनिर्युक्तेरव चूर्णिः // 132 // देशविरत्या द्यावारकागा. 109. 110 हिंसन्ति प्राणिनोऽस्मिन्निति कषः-संसारः कर्म वा, ततः कपः-कर्म भवो वा [तस्य] आयो-लाभो येभ्यस्ते कषायाः, संयोजनाश्च ते कषायाश्च संयोजनाकषायाः, तेषां उदये, किं?, नियमेन सम्यक्-अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभस्तं, भवे सिद्धिर्येषां ते भवसिद्धिकाः, ननु सर्वेषामेव भवे सिद्धिर्भवति ततः किं भवग्रहणेन ?, सत्यमेतत् , केवलं भवग्रहणादिह तद्भवो गृह्यते, तद्भवसिद्धिका अपि न लभन्ते किं पुनः परित्तसंसारिणोऽभव्या वेति // 108 // उक्ताः सम्यक्त्वस्यावरणभूताः कषायाः, अथ देशविरत्यावरणभूतांस्तानाह बिइयकसायाणुदए, अपचक्खाणनामधेजाणं / सम्मइंसणलंभ, विरयाविरई न उ लहंति // 109 // द्वितीयाश्च ते कषायाश्च द्वितीयकषायास्तेषां, द्वितीयता च देशविरतिलक्षणद्वितीयगुणविघातात(तित्वात्) क्षपणक्रमाद्वा, न विद्यते देशतः सर्वतो वा प्रत्याख्यानं येषूदयप्राप्तेषु ते प्रत्याख्यानाः, सर्वनिषेधवाची नञ् , त एव नामधेया येषां तेऽप्रत्याख्याननामधेयास्तेषामुदये सम्यग्दर्शनलाभ, भव्या लभन्त इति वाक्यशेषः, अयं च वाक्यशेषः तुशब्दसंसूचितो द्रष्टव्यः, विरमणं-विरतं तथा न विरतिरविरतिः, विरतं चाविरतिश्च विरताविरतिर्देशविरतिरित्यर्थः, तां न तु लभन्ते, तुशब्दात्सम्यग्दर्शनं लभन्त इति भावः // 109 // [अथ सर्वविरत्यावरणभूतांस्तानाह-] . तइयकसायाणुदए, पचक्खाणावरणनामधिजाणं / देसिक्कदेसविरई, चरित्तलभं न उ लहंति // 11 // सर्वविरतिलक्षणतृतीयगुणविघातित्वात् क्षपणक्रमाद्वा तृतीयास्ते च ते कषायाश्च तेषामुदये, प्रत्याख्यान-सर्वविरतिलक्षणं | तस्यावरणाः प्रत्याख्यानावरणाः, त एव नामधेयं येषां ते तथा, तेषां, नन्वप्रत्याख्याननामधेयानामुदये न प्रत्याख्यान // 132 //