________________ आवश्यकनिर्युक्तेरव चूर्णिः देशविरत्या| दिलाभः सम्यक्त्वावारकाः गा. 108 // 131 // ततोऽनिवर्तिकरणविशेषात्सम्यक्त्वं प्राप्नोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद्यथाप्रवृत्तकरणतो ग्रन्थिमासाद्याहदादिविभूतिसन्दर्शनतः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभः, न शेषलाभः 7 / जलदृष्टान्तः यथा जलं मलिनार्द्धविशुद्धशुद्धभेदेन त्रिधा भवति, एवं दर्शनमपि मिथ्यादर्शनादिभेदेनापूर्वकरणतस्त्रिधा करोति, भावार्थः पूर्ववत् 8, एवं वस्त्रदृष्टान्तेऽपि भावाना कार्या 9 // 107 // अथ प्रासङ्गिकमुच्यते-एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणः पल्योपमपृथक्त्वस्थितिपरिक्षयोत्तरकालं देशविरतिरवाप्यते, पुनः सङ्ख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिः, तदनन्तरमवशेषस्थितेरपि सङ्ख्येयेष्वेव सागरोपमेषु क्षीणेषूपशमश्रेणिः, तदनन्तरं भूयोऽप्यवशिष्टस्थितेः सङ्ख्येयेषु सागरोपमेष्वपगतेषु क्षपकश्रेणिः, इयं च देशविरत्यादिप्राप्तिरेकभवेनाप्यविरुद्धा, उक्तं च भाष्यकारेण-"सम्मत्तमि उ लद्धे | पलिअपुहत्तेण सावओ हुजा। चरणोवसमक्खयाणं सागरसंखंतरा हुंति // 1 // एवं अप्पडिवडिए संमत्ते देवमणुअजम्मेसु / / अन्नयरसेढिवजं एगभवेणं च सबाई // 2 // " भणितमानुषङ्गिकं, अथ यदुदयात्सम्यक्त्वसामायिकादिलाभो न स्यात् सञ्जातो वापति, तानिहावरणभूतान्कषायान् प्रतिपादयन्नाह पढमिल्लयाण उदए, नियमा संजोयणा कसायाणं / सम्मइंसणलंभं, भवसिद्धीयावि न लहंति // 108 // प्रथमा एव प्रथमेल्लुकाः, देशीवचनमेतत् , अनतानुबन्धिन इत्यर्थः तेषां, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात्क्षपणक्रमाद्वा, उदयः-उदीरणावलिकाप्रविष्टानां तत्पुद्गलानामुद्भूतसामर्थ्यता तस्मिन् , किं? 'नियमादित्यस्य व्यवहितः सम्बन्धः, अथ प्रथमिल्लुका विशिष्यन्ते, कर्मणा तत्फलभूतसंसारेण वा सह संयोजयन्ति जीवमिति संयोजनाः, कषन्ति-परस्परं ******** // 13 //