________________ आवश्यकनिर्युक्तेरवचूर्णिः सामायिकलामे पल्यकादिदृष्टान्ताः // 130 // स्थानं 4, तच्छिरःप्रत्यवसर्पणसमं पुनः कर्मस्थितिवर्द्धनमिति 5,3 / पुरुषदृष्टान्तः-केचन त्रयः पुरुषाः महानगरयियासया महाटवीं प्रपन्नाः, सुदीर्घमध्वानमतिक्रामन्तः पुरस्तादुभयतः समुत्खातकरवालपाणी द्वौ तस्करावालोक्य तेषामेकः प्रतीपमनुप्रयातोऽपरस्तु ताभ्यामेव गृहीतोऽन्यस्तु तौ द्वावपि अतिक्राम्येष्टं नगरं प्राप्तः, अयमुपनयः-इह संसाराटव्यां पुरुषास्त्रयः कल्प्यन्ते, पन्थाः कर्मस्थितिरतिदीर्घा, भयस्थानं ग्रन्थिदेशः, द्वौ तस्करौ रागद्वेषौ, तत्र प्रतीपगामी यो यथाप्रवृत्तकरणेन ग्रन्थिदेशमासाद्य पुनरनिष्टपरिणामः सन्नुत्कृष्टां कर्मस्थितिमासादयति, तस्करद्वयावरुद्धस्तु प्रबलरागद्वेषोदयो ग्रन्थिकसत्त्वः, अभिलषितनगरानुप्राप्तस्तु अपूर्वकरणतो रागद्वेषचौरावपाकृत्यानिवर्तिकरणेनावाप्तसम्यग्दर्शन इति 4 / आह-स हि सम्यग्दर्शनमुपदेशतो लभतेऽनुपदेशतो वा ?, उच्यते, उभयथापि, यथा कश्चिन्नरः पथः परिभ्रष्टः परिभ्रमन् स्वयं पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहाप्यत्यन्तप्रनष्टसत्पथो जीवो यथाप्रवृत्तात्संसाराटव्यां परिभ्रमन् कश्चिद्रन्थिमासाद्यापूर्वकरणेन तमतिक्रम्यानिवर्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादिरूपं निर्वाणपुरपन्थानं लभते, कश्चित्परोपदेशात् , अपरस्तु प्रतीपगामी ग्रन्थिकसत्त्वो वा नैव लभते 5 / ज्वरदृष्टान्तः-ज्वरः कश्चित्स्वयमेवापैति, कश्चिद्भेषजोपयोगेन, कश्चिन्नैव, एवमिहापि मिथ्यादर्शनमहाज्वरोऽपि कश्चित्स्वयमेवापति, कश्चिदर्हद्वचनभेषजोपयोगात् , अपरस्तु तदौषधोपयोगेऽपि नापति, करणत्रययोजना स्वयमेव कार्या 6 / कोद्रवदृष्टान्तः केषाञ्चित्कोद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति, केषाञ्चिद्गोमयादिपरिकर्मतः, अपरेषां तथापरिकर्मणायामपि नापति, एवं मिथ्यादर्शनभावोऽपि केषाञ्चित्स्वयमेवापति, अपरेषामुपदेशपरिकर्मतः, अन्येषां नैव, इह च भावार्थः-स हि जीवोऽपूर्वकरणेन मदनार्धशुद्धशुद्धकोद्रवानिव दर्शनं मिथ्यात्वमिश्रसम्यक्त्वभेदेन त्रिधा विभज्य E+ // 130 //