SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तेरव चूर्णिः सामायिकलामे पल्यकादिदृष्टान्ताः // 129 // कोद्रवः 7 जलं 8 वस्त्रं 9 इति / पल्लो(ल्यो) लाटदेशे धान्यालयः, तत्र कश्चिन्महति पल्ये स्वल्पं स्वल्पतरं धान्यं प्रक्षिपति, प्रचुरं प्रचुरतरं च तत आदत्ते, एवं ग्रहणनिक्षेपकरणे कालान्तरेण स रिक्तीभवति, एवं कर्मधान्यपल्ले(ल्ये) जीवोऽनाभोगप्रवृत्तेन यथाप्रवृत्तकरणेन स्वल्पं स्वल्पतरमुपचिन्वन् प्रभूतं प्रभूततरमपचिन्वंश्च गच्छता कालेन ग्रन्थिमासादयति पुनस्तं भिन्दानस्याऽपूर्वकरणं, सम्यग्दर्शनलाभाभिमुखस्यानिवतीति, एष पल्ल(ल्य)कदृष्टान्तः। ननु दृष्टान्त एवायमनुपपन्नः, यत आगमः'पल्ले महइमहल्ले कुंभं पक्खिवइ सोहए नालिं। असंजए अविरए बहु बंधइ निजरइ थोवं // 1 // पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवे नालिं। जे संजए पमत्ते बहु निजरइ बंधइ थोवं // 2 // पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवे न किंचि / जे संजए अपमत्ते | बहु निजरे बंधइ न किंचि // 3 // ततः पूर्वमसंयतस्य मिथ्यादृष्टेबहुतरबन्धकस्य कुतो ग्रन्थिदेशप्राप्तिः१, उच्यते, ननु मुग्ध! बाहुल्यमङ्गीकृत्येदमुक्तं, अन्यथा सदा बहुबन्धाङ्गीकरणेऽपचयानवस्थानादशेषकर्मपुद्गलानामेव ग्रहणं प्राप्नोति, अनिष्टं चैतत् , सम्यग्दर्शनादिप्राप्तिश्चानुभवसिद्धा विरुध्यते, तस्मात्यायोवृत्तिगोचरमिदं पल्ले(ल्ये)त्यादि / कथमनाभोगतः प्रचुरतरकर्मक्षय इत्याह-गिरेः सरिद्गिरिसरित्तस्यामुपलाः-पाषाणास्तद्वत् , कोऽर्थः 1, यथा गिरिसरिदुपला अन्योन्यघर्षणोपयोगशून्या अपि विचित्राकृतयः स्युस्तथा जीवा मिथ्यात्वाणुप्रकर्षणाद्विचित्रकर्मस्थितिका विचित्राः, यथाप्रवृत्तकरणतो ग्रन्थिदेशं प्राप्तास्तमतिक्रम्य च सम्यक्त्वं लभन्ते 2 पिपीलिकाः-कीटिकाः, यथा तासां भुवि स्वभावगमनं स्यात् 1, तथा स्थाण्वारोहणं, 2, सञ्जातपक्षाणां च तस्मादप्युत्पतनं 3, स्थाणुमूर्द्धनि चावस्थानं 4, कासाञ्चित् स्थाणुशिरसः प्रत्यवसर्पणं 5, एवमिह जीवानां कीटिकास्वभावगमनवद्यथाप्रवृत्तकरणं 1, स्थाण्वारोहणकल्पं त्वपूर्व(र्वकरणं)२, उत्पनततुल्यमनिवर्ति०३,स्थाणुपर्यन्तावस्थानसदृशंतु ग्रन्थौ अव EMORRRRRRRRR // 129 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy