________________ आवश्यकनिर्युक्तेरव चूर्णि श्रुतादिलाभकारणं सामायिकलामे पल्य कादिदृष्टान्ताः गा.१०७ // 128 // धनायालं, चित्तविघातादिप्रचूरविघ्नत्वात् , विशिष्टाप्राप्तपूर्वफलप्राप्त्यासन्नत्वात् , प्रागभ्यस्तक्रियया तस्यावाप्तुमशक्यत्वाच्च, | अनेकसंवत्सरानुपालिताचाम्लादिपुरश्चरणक्रियासादितगुणान्तरोत्तरसहायक्रियारहितविद्यासाधकवत्, तथा चाह भाष्यकार:'पाएण पुव्वसेवा परिमउई साहणंमि गुरुतरिआ / होइ महाविजाए किरिया पायं सविग्घा य // 1 // तह कम्मद्विइखवणे परिमउई मोक्खसाहणे गरुई। इह दंसणाइकिरिआ दुलहा पायं सविग्धा य // 2 // अथवा यत एव बह्वी कर्मस्थितिरनेनोन्मूलिता अत एवापचीयमानदोषस्य सम्यक्त्वादिगुणलाभः सञ्जायते, निःशेषकर्मपरि-16 क्षये सिद्धत्ववत् , तत एव च मोक्ष इति, अतो न शेषमपि कर्म गुणरहित एवापाकृत्य मोक्षं प्रसाधयतीति स्थितम् / अथ सम्यक्त्वादिगुणावाप्तिविधिरुच्यते-जीवा द्विधा-भव्या अभव्याश्च, तत्र भव्यानां करणत्रयं भवति, करणं नाम सम्यक्वाद्यनुगुणो विशुद्धः परिणामविशेषः, यथाप्रवृत्तकरणं 1 अपूर्वकरणं 2 अनिवर्तिकरणं च 3, तत्र यथैवानादिसंसिद्धेनैव प्रकारेण प्रवृत्तं यथाप्रवृत्तं, क्रियते कर्मक्षपणमनेनेति करणं, यथाप्रवृत्तं च तत्करणं चेति समासः, अनादिकालादारभ्य यावद्भन्थिस्थानं | तावदाद्यं, ग्रन्थिं तु समतिकामतो द्वितीय, ग्रन्थेर्भेदकरणात्सम्यग्दर्शनलाभाभिमुखस्य तृतीयम् // 106 // अथ करणत्रयमङ्गीकृत्य सामायिकलाभदृष्टान्तानभिधित्सुराहपल्लय गिरिसरिउवला पिवीलिया पुरिस पहे जग्गहिआ / कुव जल वत्याणि य सामाइयलाभदिद्वंता॥१०७॥ इह सामायिकलाभे नव दृष्टान्ताः, पल्ल(ल्य)कदृष्टान्तः 1 गिरिसरिदुपलः 2 पिपीलिका 3 पुरुषः 4 पथ ५ज्वरगृहीतः 6 // 128 //