________________ श्रुतादि आवश्यकनिर्युक्तेरव चूर्णिः लाभकारणं गा.१०६ // 127 // शमुहूर्ता वेदनीयस्य, नामगोत्रयोरष्टौ, शेषाणामन्तर्मुहूर्तमिति / ननु किमेता युगपदेवोत्कृष्टस्थितिमासादयन्ति उतैकस्यामुत्कृष्टस्थितिरूपायां सञ्जातायामन्या अपि नियमतो भवन्ति आहोस्विदन्यथा वैचित्र्यं?, उच्यते, मोहनीयस्यात्कृष्टस्थितौ शेषाणामपि षण्णामुत्कृष्टैव, आयुष्कस्य उत्कृष्टा वा मध्यमा वा, न तु जघन्या, मोहनीयरहितानां तु शेषप्रकृतीनां अन्यतमस्या उत्कृष्टस्थिति| सद्भावे मोहनीयस्य शेषाणां च उत्कृष्टा मध्यमा वा, न तु जघन्या इति प्रासङ्गिकम् // 105 // अथ लाभकारणमाह सत्तण्हं पयडीणं अभितरओ उ कोडिकोडीणं / काऊण सागराणं, जइ लहइ चउण्हमण्णयरं // 106 // सप्तानामायुर्वर्जकर्मप्रकृतीनां या पर्यन्तवर्तिनी स्थितिस्तामङ्गीकृत्य सागरोपमाणां कोटाकोटी तस्या अभ्यन्तरतो-मध्यतो | | मध्य एव, तुरेवार्थः, कृत्वा आत्मानमिति गम्यते, यदि लभते-प्राप्नोति चतुर्णा-श्रुतसामायिकादीनामन्यतरत् , तत एव नान्यथा, | पाठान्तरं वा 'कृत्वा सागरोपमाणां स्थितिं लभते चतुर्णामन्यतरदिति / इयमत्र भावना-आयुर्वर्जानां सप्तकर्मप्रकृतीनां यदापर्यन्तवर्तिनी स्थितिः पल्योपमाऽसङ्ख्येयभागहीना सागरोपमकोटीप्रमाणा अवतिष्ठते तदा घनरागद्वेषपरिणामरूपोऽत्यन्तदुर्भेददारुग्रन्थिवत् कर्मग्रन्धिर्भवति, तस्मिंश्च कर्मग्रन्थावपूर्वकरणनामकविशेषविशुद्धिकुठारधारया भिन्ने परमपदहेतोः सम्यक्त्वस्य लाभ उपजायते, नान्यथा, तद्भेदश्च मनोविघातपरिश्रमादिभिर्दुःसाध्यः, तथाहि-स जीवः कर्मरिपुमध्यगतस्तं प्राप्यातीव परिश्राम्यति, प्रभूतकारातिसैन्यान्तकृत्त्वेन सञ्जातखेदत्वात् , सङ्ग्रामशिरसीव दुर्जयापाकृतानेकशत्रुनरेन्द्रभटवत् / आह-किं तेन भिन्नेन? किं वा सम्यक्त्वादिनावाप्तेन ?, यथातिदीर्घकर्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता, एवं शेषमपि कर्म गुणरहित एव क्षपयित्वा विवक्षितफलभाग्भवतु, उच्यते, स हि तस्यामवस्थायां वर्तमानोऽनासादितगुणान्तरो न शेषक्षपणया विशेषफलप्रसा SEX***BE // 127 //