________________ आवश्यकनियुक्तेरव चूर्णिः // 126 // कथं श्रुतादिलाभा लाभौ गा.१०५ ज्ञानाभावे ज्ञानावरणक्षयानन्तरं च भावेऽपि कषायक्षयग्रहणं तेषामत्र प्राधान्यख्यापनार्थ, कषायक्षये एवं सति निर्वाणं भवति, तद्भावे त्रयाणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः, नन्वेवं तर्हि यदादावुक्तं श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्षं, यस्तपःसंयमात्मकयोगशून्य इति तद्विशेषणमनर्थक, श्रुते सति तपःसंयमात्मकयोगसहिष्णोरपि मोक्षाभावात् , उच्यते, सत्यमेतत् , किन्तु क्षायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादिनिबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः // 104 // आह-इष्टमस्माभिर्मोक्षकारणकारणं श्रुतादि, तस्यैव कथमलाभो लाभो वा ?, उच्यते अट्ठण्हं पयडीणं, उक्कोसठिइइ वट्टमाणो उ / जीओ न लहइ सामाइयं चउण्हपि एगयरं // 105 // अष्टानां ज्ञानावरणीयादिकर्मप्रकृतीनां, उत्कृष्टा चासौ स्थितिश्च उत्कृष्टस्थितिः, तस्यां वर्तमानो जीवो न लभते, किं?, सामायिक, चतुर्णा सम्यक्त्वश्रुतदेशविरतिसर्वविरतिरूपाणामेकतरं-अन्यतमत् , अपेर्मतिज्ञानादि च न लभते, पूर्वप्रतिपन्नोऽपि आयुर्वर्जकर्मोत्कृष्टस्थितौ न भवति, यतोऽवाप्तसम्यक्त्वो हि तत्परित्यागेऽपि न भूयो ग्रन्थिमुल्लध्योत्कृष्टस्थितीः कर्मप्रकृतीबध्नाति, आयुषस्तु उत्कृष्टस्थितौ वर्तमानोऽनुत्तरविमानवासिसुर उपपातकाले सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नो न तु प्रतिपद्यमानकः,तुशब्दादायुर्वर्जशेषसप्तकर्मप्रकृतीनां जघन्यस्थितावपि वर्तमानः सूक्ष्मसम्परायादिः सम्यक्त्वश्रुतसर्वविरतिसामायिकानां त्रयाणां पूर्वप्रतिपन्नो नान्यः, आयुषि जघन्यस्थितौ तूभयाभावः, जघन्यायुष्कस्य क्षुल्लकभवग्रहणाधारत्वात् , तस्य च वनस्प तिषु भावात् , तत्र चोभयाभावात्। प्रकृतीनां चोत्कृष्टेतरभेदभिन्ना स्थितिरियं-ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टस्थितिस्त्रिंशत्सागरोपमकोटीकोव्यः, सप्ततिर्मोहनीयस्य, नामगोत्रयोविंशतिः, त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य, जघन्या तु द्वाद // 126 //