SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः // 125 ज्झनक्रियया तच्छोधने कर्मकरपुरुषवत् , तथा संयम आश्रवद्वारविरमणरूपः, चशब्दः पृथग्ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकतत्वावधारणार्थः, गुप्तिकर(गुप्तिः) आगन्तुककर्मकचवरनिरोध इत्यर्थः,[गुप्तिकरणशीलो गुप्तिकरः,] ततश्च संयमोऽप्यपूर्वकर्मकचवरागमननिरोधतयैवोपकुरुते, तत्स्वभावत्वात् , गृहशोधने पवनप्रेरितकचवरागमननिरोधेन वातायनादिस्थगनवत् , एवं त्रयाणामेव, अपिरवधारणेऽथवा सम्भावने, किं सम्भावयति ?-त्रयाणामपि ज्ञानादीनां, निश्चयतः क्षायिकाणां, न तु क्षायोपशमिकानामिति, समायोगे सति मोक्षः-सर्वथाष्टविधकर्ममलवियोगलक्षणो जिनशासने भणितः। ननु 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेणोक्तलक्षणज्ञानादित्रयादेव मोक्षप्रतिपादनात् , उच्यते, तस्य ज्ञानरूपत्वाद्, रुचिरूपत्वाज्ज्ञानान्तवाददोषः // 103 // अथ यत्प्रागभ्यधायि 'श्रुतज्ञानेऽपि जीवो वर्तमानः सन्न प्राप्नोति मोक्ष मित्यादि प्रतिज्ञागाथासूत्रं, तव सूत्रसूचितः खल्वयं हेतुरवगन्तव्यः, कुतः?, तस्य क्षायोपशमिकत्वाद् , अवधिज्ञानवत् , क्षायिकज्ञानाद्यवाप्तौ च मोक्षप्राप्तिरिति तत्त्वं, अतः श्रुतस्यैव क्षायोपशमिकत्वमुपदर्शयन्नाह भावे खओवसमिए, दुवालसंगपि होइ सुयनाणं / केवलियनाणलंभो, नन्नत्थ खए कसायाणं // 104 // भवनं भावः, भवतीति वा भावः तस्मिन् , स च औदयिकाद्यनेकभेदः, अत आह-क्षायोपशमिके, द्वादश अङ्गानि यस्मिंस्तद् द्वादशाङ्गं भवति श्रुतज्ञानं, अपेरङ्गबाह्यमपि, उपलक्षणं चैतत्तेन मत्यादिज्ञानत्रयमपि तथा सामायिकचतुष्टयमपि, तथा | केवलस्य भावः कैवल्यं-घातिकर्मवियोग इत्यर्थः, तस्मिन्सति ज्ञानं कैवल्यज्ञानं, तस्य लाभः, कथं ? कषायाणां-क्रोधादीनां क्षये | सति, नान्यत्रेति, तृतीयार्थे सप्तमी, नान्येन प्रकारेणेति, इह छद्मस्थवीतरागावस्थायां कषायक्षये सत्यपि अक्षेपेण कैवल्य श्रुतस्यैव क्षायोपशमिकत्वं गा. 104 ************ // 125 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy