________________ आवश्यकनिर्युक्तेरव ज्ञानकि याभ्यां चूर्णिः // 124 // संजोगसिद्धीइ फलं वयंति, नह एगचक्केण रहो पयाइ / अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा // 102 // ज्ञानक्रिययोः संयोगनिष्पत्तावेव मोक्षलक्षणं फलं वदन्ति तीर्थकराः, न हि लोकेऽप्येकचक्रेण रथः प्रवर्तते, एवमन्यदपि सामग्रीजन्य कार्य सर्वमवगन्तव्यं, अत्र दृष्टान्तः-अन्धश्च पङ्गुश्च वने समेत्य-मिलित्वा तौ सम्प्रयुक्तौ नगरं प्रविष्टौ, समेत्येत्युक्तेऽपि तौसम्प्रयुक्ताविति पुनरभिधानमात्यन्तिकसंयोगप्रदर्शनार्थ, एवं ज्ञानक्रियाभ्यां समुदिताभ्यां सिद्धिपुरमवाप्यते, प्रयोगश्च-विशिष्टकारणसंयोगोऽभिलषितकार्यप्रसाधकः सम्यक्रियोपलब्धिरूपत्वात् अन्धपङ्ग्वोरिव नगरावाप्तेरिति, यः पुनरभिलषितफलसाधको न भवति स सम्यक्रियोपलब्धिरूपोऽपि न भवति, इष्टगमनक्रियाविकलविघटितैकचक्ररथवदिति व्यतिरेकः॥१०२॥ ननु ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ?, किमविशेषेण शिबिकोद्वाहकवत् , उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवातवत् , उच्यते, भिन्नस्वभावतया, यत आहनाणं पयासगं सोहओ तवो संजमो य गुत्तिकरो। तिण्हपि समाजोगे, मोक्खो जिणसासणे भणिओ॥१०३॥ कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवदिह कर्मकचवरभृतजीवगृहशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेयः इति समुदायार्थः। तत्र ज्ञान प्रकाशकत्वेनोपकुरुते, तत्स्वभावात् , गृहमलापनयने प्रदीपवत्, क्रिया तु तपःसंयमरूपत्वादित्थमुपकुरुते-तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति तपः तच्च शोधकत्वेनोपकुरुते, तत्स्वभावत्वात् गृहकचवरो गा. 102 ज्ञानादीनामुपकारिता गा. 103 // 124 //