SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः // 123 // एकोऽपि यथा दीपः सचक्षुष्कस्य प्रकाशयति // 99 // ननु इत्थं सति चरणरहितानां ज्ञानं सुगतिफलापेक्षया निरर्थकं प्राप्नोति, | उच्यते, इष्यत एव, यत आह जहा खरो चंदणभारवाही, भारस्स भागी नहु चंदणस्स / एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोग्गईए // 10 // यथा खरश्चदनभारवाही भारस्य भागी न तु चन्दनस्य, एवमेव ज्ञानी चरणेन हीनो ज्ञानस्य भागी, न तु नैव सुगतेः // 10 // इदानीं विनेयस्य मा भूदेकान्तेनैव ज्ञानेऽनादरो भविष्यति च क्रियायां तच्छून्यायामपि पक्षपातः, अतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयन्नाह हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दडो धावमाणो अ अंधओ // 101 // अत्राक्षरार्थः प्रतीत एव, भावार्थस्त्वयं-ज्ञान्यपि क्रियारहितो न कर्माग्नेः पलायितुं समर्थः, क्रियाविकलत्वात् , नापीतरः, ज्ञानविकलत्वात् , अत्र प्रयोगो-ज्ञानमेव विशिष्टफलप्रसाधकं न भवति, सक्रियायोगशून्यत्वात् , नगरदाहे पङ्गुलोचनविज्ञानवत्, नापि क्रियैव विशिष्टफलप्रसाधिका, सज्ज्ञानरहितत्वात् , नगरदाहे एवान्धस्य पलायनक्रियावत् , ननु एवं ज्ञानक्रिययोः समुदितयोरपि निर्वाणप्रसाधकसामर्थ्यानुपपत्तिः प्रसज्यते, प्रत्येकमभावात् , सिकतातैलवत् , अनिष्टं चैतत् , उच्यते, समुदायसामर्थ्य हि प्रत्यक्षसिद्धं, यतो ज्ञानक्रियाभ्यां कटादिकार्यसिद्धय उपलभ्यन्त एव, न तु सिकतासुतैलं, न च द्रष्टमपट्टोतुं शक्यते, एवमाभ्यामपि कार्यसिद्धिरविरुद्धैव, किंच-न सर्वथैवानयोःसाधनत्वं नेष्यते, देशोपकारित्वमभ्युपगम्यते एव ॥१०१॥यत आह चरणरहितज्ञानस्य निष्फलता | गा.१०० | एकान्तेन | केवलज्ञानक्रिययोरिष्टफलाभावः गा. 101 // 123 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy