SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः | सूत्रं किमादिघिपर्यन्तमित्यादि गा. 93 // 120 // // अर्थमात्रमेवाहन्भाषते, ततो गणधराः शासनस्य हितार्थ 'निपुणं बहु सूक्ष्मार्थप्रतिपादकं नियतगुणं वा निगुणं सन्निहिताऽशेषसूत्रगुणमित्यर्थः, द्वादशाङ्गरूपं सूत्रं ग्रन्थन्ति, तत एव जगति सूत्र प्रवर्त्तते, पाठान्तरं वा 'गणधरा निपुणा निगुणा वेति' // 92 // नन्वर्थो नाभिलाप्यस्तस्याऽशब्दरूपत्वादतस्तं कथं भगवान्भाषते?, उच्यते, शब्द एवार्थप्रत्यायनकार्यत्वादुपचारतोऽयः, यथा आचारवचनत्वादाचार इत्यादि / ननु शब्दमेवार्थप्रत्यायकमहन्भाषते, न तु साक्षादर्थ, गणभृतोऽपि च शब्दात्मकमेव श्रुतं ग्रन्थन्ति, कोऽत्र विशेषः?, उच्यते, स हि भगवान्विशिष्टमतिसम्पन्नगणधरापेक्षया प्रभूतार्थमर्थमात्रस्वल्पमेवाभिधत्ते, न वितरजनसाधारणं ग्रन्थराशिं, गणभृतस्तु न तथेति / तत्पुनः सूत्रं किमादि किं पर्यन्तं कियत् परिमाणं को वाऽस्य सार इत्याह सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ। तस्सवि सारो चरणं, सारो चरणस्स निव्वाणं // 93 // तच्छ्रुतज्ञानं सामायिकमादौ यस्य तत् ‘यावद्विन्दुसारात्' बिन्दुसाराख्यचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दात्तन्मूल| भेदाऽपेक्षया द्विभेदमङ्गप्रविष्टमनङ्गप्रविष्टं च, अङ्गप्रविष्टं द्वादशभेदमाचारादिभेदात् , अनङ्गप्रविष्टमनेकं (कभेदं) तद्व्यतिरिक्तकालिकोत्कालिकादिभेदात्। 'तस्यापि' श्रुतज्ञानस्य सारश्चरणं,सारोऽत्र प्रधानवचनः। ननु ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति समानत्वमेवोभयोस्ततश्च कथं ज्ञानसारश्चरणमिति ?, उच्यते, इह यद्यपि 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' (तत्त्वा० 1-1) इति समान ज्ञानचरणयोर्निर्वाणहेतुत्वमुपन्यस्तं, तथापि गुणप्रधानभावोऽस्ति, ज्ञानं प्रकाशकं, चरणं त्वभिनवकर्मादाननिरोधफलमिति, ज्ञानचरणरूपद्विकाधीनो मोक्षः, तथापि प्रकाशकतयैव व्याप्रियते ज्ञानं, कर्ममलशोधकतया तु चरणं, प्रधानगुणभावाचरणं ज्ञानस्य सारः, अपिशब्दात्सम्यक्त्वस्यापि सारश्चरणं, सम्यग्दर्शनादित्रयस्य समुदितस्यैव निर्वाणहेतुत्वात् // 93 // SHR********** Kol // 12 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy