SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सूत्ररचनाप्रयोजना आवश्यकनिर्युक्तेरव चूर्णिः // 119 // न्तरं | गा. 91 aa 92 चक्षाणश्च नातज्ज्ञः न च [राग द्वेषवान् , एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपयनंश्च भगवान्नातज्ज्ञो न च रागद्वेषवानिति // 89 // तां ज्ञानकुसुमवृष्टिं बुद्धिमयेन बुद्ध्यात्मकेन पटेन गणधरा गौतमादयो ग्रहीतुमादातुं निरवशेषां सम्पूर्णा, गणभृतां बीजादिबुद्धित्वात् , ततः किं कुर्वन्ति ? तीर्थकरभाषितानि कुसुमकल्पानि ग्रन्थन्ति विचित्रकुसुममालावत् , किमर्थ ? प्रगतं प्रशस्तमादौ वा वचनं प्रवचनं-द्वादशाङ्गं गणिपिटकं सङ्घो वा, तदर्थम् // 90 // प्रयोजनान्तरमाह घित्तुं च सुहं सुहगणणधारणा दाउं पुच्छिउं चेव / एएहिं कारणेहिं, जीयंति कयं गणहरेहिं // 91 // इह मुत्कलं भगवता तीर्थकरेणोक्तं वचनवृन्दं मुत्कलकुसुमनिकुरम्बमिव सर्वात्मना ग्रहीतुं न शक्यते, ग्रथितं तु सूत्रीकृतं सत् ग्रहीतुं सुखं भवति, [इयमत्र भावना] पदवाक्यप्रकरणाध्यायोदेशाध्ययनप्राभृतवस्तुपल्लवादिनियतक्रमव्यवस्थापितं जिनवचनमेतावदस्य गृहीतमेतावच्च पुरस्ताग्रहीतव्यमिति विवक्षया प्रवर्द्धमानेनोत्साहेन यत्नत एव ग्रहीतुं शक्यते, चः समुच्चये, तथा गुणनं-परावर्त्तनं गणनं वा, एतावदधीतमेतावदध्येतव्यमिति, धारणा त्वविस्मृतिः, ते अपि ग्रथिते सति सुखं भवतः दातुं शिष्येभ्यः, प्रष्टुं च संशयापनोदार्थ गुरुपादमूले, चः पूर्ववत् , एवकारस्य तु व्यवहितसम्बन्धः, ग्रहीतुं सुखमेव भवतीति / एतैरनन्तरोक्तैः कारणैर्हेतुभूतैः 'जीय'ति प्राकृतत्वात् , यथा जीवस्य जीवितं जीवन्मात्ररूपं, न कदाचिद् व्यवच्छेदमुपयाति, तथा श्रुतमपि सदावस्थानं द्वादशाङ्गस्य स्यादित्येवमर्थ कृतं ग्रथितं गणधरैः, अथवा जीतमाचरितं कल्पः सर्वेषां गणभृतामिदं सन्दर्भणीयं तीर्थकरवचनमिति तैः कृतम् // 91 // तथा चाह अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणं / सासणस्स हियट्ठाए, तओ सुत्तं पवत्तइ // 92 // // 119 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy