SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः // 118 // तीर्थकरसम्पदतियशवर्णनं गुणसमन्वितानां कुसुमानां सञ्चयं कृत्वा तदधोभागवर्तिनां पुरुषाणां तदारोहणासमर्थानामनुकम्पया कुसुमानि निसृजति, तेऽपि च भूपातरजोगुण्डनभयाद्विमलविस्तीर्णपटैः प्रतीच्छन्ति, पुनर्यथायोगमुपभुञ्जमानाः परेभ्यश्चोपकुर्वाणाः सुखमाप्नुवन्ति, एवं भाववृक्षेऽपि सर्वमिदमायोज्यं, तपश्च नियमश्च ज्ञानं च तपोनियमज्ञानानि तान्येव वृक्षस्तं, तत्रानशनादिद्वादशधा तपः, नियम इन्द्रियनोइन्द्रियसंयमः, इन्द्रियाणि श्रोत्रादीनि नोइन्द्रियाश्च कषायाः, ज्ञानमिह केवलं सम्पूर्ण गृह्यते, इत्थंरूपं वृक्षमारूढः, तत्र ज्ञानस्य सम्पूर्णासम्पूर्णरूपत्वादाह-केवलं सम्पूर्ण ज्ञानमस्यास्तीति केवली, असावपि त्रिधा श्रुतकेवली 1 क्षायिकसम्यक्त्वकेवली 2 क्षायिकज्ञानकेवली 3, यदिवा चतुर्धा-श्रुतकेवली 1 अवधिकेवली 2 मनःपर्यायकेवली 3 केवलज्ञानकेवली 4, अतः श्रुतादिकेवलीव्यवच्छित्तये केवलज्ञानेन केवलित्वं प्रतिपादयिषुराह-अमितज्ञानीति, ततो वृक्षात् मुञ्चति ज्ञानवृष्टिं कारणे कार्योपचारात् ज्ञानकारणभूतशब्दकुसुमवृष्टिं, किमर्थं ?, भव्यजनविबोधनार्थ, ननु कृतकृत्यस्य सतस्तत्त्वकथनमनर्थक प्रयोजनविरहात्, सति च तस्मिन्कृत्कृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाच्च भव्यानामेव विबोधमनुपपन्नं, अभव्याविबोधनेऽसर्वज्ञत्वाऽवीतरागत्वप्रसङ्गादिति, अत्रोच्यते प्रथमपक्षे तावत् सर्वथा कृतकृत्यत्वं नाभ्युपगम्यते, भगवतस्तीर्थकरनामकर्मविपाकानुभवात् , तस्य च धर्मदेशनादिप्रकारेणैवानुभूतेः, द्वितीयपक्षे. तु त्रैलोक्यगुरोधर्मदेशनक्रिया विभिन्न स्वभावेषु प्राणिषु | तत्स्वाभाव्याद्विबोधाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत्, उक्तं च वादिमुख्येन-“त्वद्वाक्य- तोऽपि केषाञ्चिदबोध इति मेऽद्भुतं / भानोर्मरीचयः कस्य नाम नालोकहेतवः // 1 // न चाद्भुतमुलूकस्य प्रकृत्या क्लिष्टचेतसः / खच्छा अपि तमस्त्वेन भासन्ते भास्वतः कराः॥२॥ इत्यादि" यथा वा सुवैद्यः साध्यमसाध्यं वा व्याधि चिकित्समानः प्रत्या * * * // 118 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy