SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ नियुक्ति स्वरूपं आवश्यकनिर्युक्तेरव चूर्णिः // 117 // तीर्थकरसम्पदतिशयवर्णनं च गा. 88 90 * यथा कार्षापणाद घृतं, घटादिभ्यो वा रूपविज्ञानमिति / एवमियमाचार्यपारम्पर्येण हेतुत्वात्तत आगतेत्युच्यते, आगतेवागता, बोधवचनश्चायमागतशब्दो न गमिक्रियावचन इति // 87 // साम्प्रतं नियुक्तिस्वरूपाभिधानायेदमाह निजुत्ता ते अत्था, जं बद्धा तेण होइ णिज्जुत्ती। तहवि य इच्छावेइ, विभासिउं सुत्तपरिवाडी // 88 // निर्णययुक्ता नियुक्ता निश्चिता इत्यर्थः, ते प्रसिद्धा अर्थाः सूत्रोक्ता जीवादयः पदार्था / 'यद्' यस्माद्गाथात्वेन ग्रथितास्तेनेयं * भवति नियुक्तिः, निर्युक्तानां-सूत्रे प्रथममेव सम्बद्धानां सतामर्थानां व्याख्यारूपा युक्तिर्योजनं युक्तशब्दलोपान्नियुक्तिः, ननु | यदि सूत्रे सम्बद्धाः सन्ति ततः किमनया ?, उच्यते, यद्यपि सूत्रे बद्धा एव सन्ति तथापि सूत्रे नियुक्तानप्यर्थान् विभाषितुंव्याख्यातुं सूत्रपरिपाटी-सूत्रपद्धतिः की एषयतीव एषयति-प्रयोजयति, इयमत्र भावना-अप्रतिबुद्ध्यमाने श्रोतरि गुरुं तदनुग्रहार्थ सूत्रपरिपाट्येव विभाषितुमेषयति, इच्छत इच्छत मां प्रतिपादयितुमिति इत्थं प्रयोजयतीवेति, सूत्रपरिपाटीमिति पाठान्तरे, तत्र शिष्य एव गुरुं सूत्रपद्धत्तिमनवबुध्यमानः प्रवर्त्तयति-इच्छत इच्छत मम व्याख्यातुं सूत्रपरिपाटीमिति / व्याख्या च | नियुक्तिः, अतः पुनर्योजनरूपा नियुक्तिरित्थमदोषायेति // 88 // यदुक्तं 'अर्थपृथक्त्व[स्य तैः कथित स्येति' तीर्थकरगणधरैः, इदानीं तेषामेव [शीलादि] सम्पदतिशयप्रतिपादनार्थ गाथाद्वयमाह तवनियमनाणरुक्खं, आरूढो केवली अमियनाणी / तो मुयइ नाणवुहि, भवियजणविबोहणट्ठाए // 89 // तं बुद्धिमएण पडेण, गणहरा गिहिउं निरवसेसं / तित्थयरभासियाई, गंथंति तओ पवयणट्ठा // 9 // रूपको नामात्रालङ्कारः, तत्र वृक्षो द्विधा, द्रव्यतो भावतश्च, द्रव्यतःप्रधानतरः कल्पवृक्षः, यथा तमारुह्य कश्चिद् गन्धादि * *
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy