SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः सामायिकनियुक्तिः गा.८७ // 116 // लक्षणो हेतुः, हेतुमुल्लङ्घय प्रथम दृष्टान्ताभिधानं न्यायप्रदर्शनार्थ-क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यते, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो मत्स्यादीनां सलिलवत्, तथा क्वचिद्धेतुरेव केवलो, न दृष्टान्तः, यथा मदीयोऽयमश्वो विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेः, कारणमुपपत्तिमात्रं, यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधप्रकर्षात् , नात्र आविद्वदङ्गनादिलोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति, तत्राहरणार्थाभिधायक पदमाहरणपदं, एवमन्यत्रापि भावनीयं, आहरणं च हेतुश्च कारणं च आहरणहेतुकारणानि, तेषां पदानि आहरणहेतुकारणपदानि, तेषां निवहः-सङ्घातो यस्यां नियुक्तौ सा तथाविधा तां // 86 // तत्र 'यथोद्देशं निर्देश' इति न्यायात् आदी अधिकृतावश्यकाद्याध्ययनसामायिकस्योपोद्घातनियुक्तिमभिधित्सुराह सामाइयनिजत्तिं, वुच्छं उवएसियं गुरुजणेणं / आयरियपरंपरएण, आगयं आणुपुबीए // 8 // सामायिकस्य नियुक्तिः सामायिकनियुक्तिः, तां वक्ष्ये, किं किशिष्टां ?, उप-सामीप्येन देशिता उपदेशिता तां, केन ? गुरुजनेन-तीर्थकरगणधरलक्षणेन, पुनरुपदेशकालादारभ्याचार्यपरम्परेणागतां, स च परम्परको द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यपरम्परकः पुरुषपारम्पर्येण इष्टकानामानयनं, भावपरम्परकस्तु इयमेवोपोद्घातनियुक्तिराचार्यपारम्पर्येणागतेति, कथं?, आनु. पूा-परिपाट्या सुधर्मस्वामिनो जम्बूस्वामिना, ततः प्रभवेन, ततोऽपि शय्यम्भवादिभिरित्यादि, अथवाऽऽचार्यपारम्पर्येणागतां स्वगुरुभिरुपदेशितां / ननु द्रव्यस्येष्टकादेर्युक्तं पारम्पर्येणागमनं, भावस्य तु श्रुतपर्यायरूपत्वाद्वस्त्वन्तरसंक्रमणाभावात्पारम्पर्येणागमनानुपपत्तिः, न च तद्बीजभूतस्यार्हद्गणधरशब्दस्यागमनमस्ति, तस्य श्रुत्यनन्तरमेवोपरमादिति, अत्रोच्यते 'उपचाराददोषः, FREE********* // 116 // *
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy